________________
२४३
२४४
षष्ठो भवः मुनिरूचे व्रतं चेत्तौ गृह्णीतो योजयामि तत् । राज्ञोक्तं संमतं मेऽद: प्रष्टव्यौ तु कुमारकौ ॥३५१।। वक्तुं न शक्तौ तौ साधुरूचेऽहं जल्पयामि तौ । गत्वा गीर्मात्रतः सज्जीकृत्योक्तौ मुनिना स्वयम् ॥३५२।। साधुबाधालतापुष्पमेतद्वां दुर्गतिः फलम् । समस्ति पश्चात्तापश्चेत्तद् गृह्णीतं व्रतं युवाम् ॥३५३।। तावूचतुश्च नौ पश्चात्तापश्चाऽपत्रपाऽस्ति च । प्रतिपत्स्यावहेऽवश्यं प्रव्रज्यां गुर्वनुज्ञया ॥३५४॥ गुरुभ्यां तावनुज्ञातौ योजितौ साधुना ततः । अङ्गैरपि व्रताङ्गैश्च प्रपन्नौ विधिना व्रतम् ॥३५५।। द्विजस्तु ज्ञाततत्त्वोऽपि बलात् प्रताजितोऽस्म्यहम् । इति द्वेषं गुरौ बिभ्रदनालोच्य दिवं ययौ ॥३५६।। ईशाने भुञ्जतस्तस्य भोगांश्चिह्नानि जज्ञिरे । च्यवनस्य विषण्णोऽसौ देवीपरिजनान्वितः ॥३५७।। त्यक्तमोहोऽथ गत्वा द्राग् विदेहे स जिनेश्वरम् । नत्वाऽपृच्छत्पद्मनाभं क्वोत्पत्स्येऽहं दिवश्च्युतः ॥३५८|| सुप्रापबोधिर्वा नो वा तीर्थनाथस्ततोऽवदत् । जम्बूभरतकौशाम्ब्यामुत्पत्तिस्ते भविष्यति ।।३५९।। भावी दुर्लभबोधिश्च गुरुप्रद्वेषतो भवान् । तस्य प्राग्भववृत्तान्तं कथयामास तीर्थकृत् ॥३६०।। स दध्यावल्पके द्वेषे विपाको दारुणः पुनः । स्वाम्याह बहुमान्यः स्यादिहलोकोपकार्यपि ॥३६१।। गुरुस्तु मिथ्याज्ञानानि निघ्नशुद्धकियां दिशन् । भवात्कर्षशिवं यच्छन्परलोकोपकारकः ॥३६२।।
समरादित्यसंक्षेपः तद्वेषजनितं कर्माऽनल्पमल्पमपीरितम् । स दध्यौ कर्मणः प्रान्तः कदा मेऽस्य भविष्यति ॥३६३|| भगवानाह ते भाविभवे मूकापराभिधात् । बन्धोरशोकदत्ताख्याद् बोधिलाभो भविष्यति ॥३६४|| सुरः प्राह कुतो हेतोरस्य नामद्वयं प्रभो ! । भगवानाह कौशाम्ब्यां श्रेष्ठ्यासीत्तापसाभिधः ॥३६५।। स सवित्तोऽपि सारम्भ उदारोऽपि प्रमादवान् । नागदत्तः सुतस्तस्य स्नुषा वसुमतीति च ॥३६६।। स चार्तध्यानदोषेण मृत्वा सूकरतां गतः । पूर्वभुक्तप्रदेशाऽवलोकनाज्जातिमस्मरत् ॥३६७|| अन्यदा नागदत्तेन प्रारब्धे दिवसे पितुः । परिवेषणवेलायामोतुनाऽपहते पले ॥३६८॥ सूपकार्या गृहपतेर्वेलाऽतिक्रमभीतया । छन्नं विशसितो मृत्वा क्रुधाऽजनि भुजङ्गमः ॥३६९।। तत्राऽपि हि भवे तस्य जातिस्मृतिरजायत । अकषाय्यनुकम्पावान्कर्मवैचित्र्यतस्तु स ॥३७०॥ तं निरीक्ष्याऽन्यदा सूद्या सर्पः सर्प इतीरिते । एत्य कर्मकरैरात्तमुद्गरैर्विनिपातितः ॥३७१।। अकामनिर्जरायोगात्स्नुषागर्भे सुतोऽभवत् । जातस्य तस्य चाऽशोकदत्त इत्याह्वयोऽजनि ॥३७२।। तस्य चैकाऽब्ददेश्यस्य पश्यतो जनकादिकम् । अचिन्त्यकर्मसामर्थ्याज्जाता जातिस्मृतिः पुनः ॥३७३॥ दध्यौ च तनयं तातं स्नुषामपि च मातरम् । कथं वक्ष्यामि मूकत्वमेव श्रेयस्ततो मम ॥३७४।।