________________
षष्ठो भवः
२४१
भगवानाह धन्योऽसि ज्ञेयं ज्ञातं त्वया ननु । बोधो यथास्थितो लब्धस्तदेनं सफलीकुरु ॥३२८।। भवन्त्यपरमार्थज्ञा जना विषयलोलुपाः । अत्र व्यतिकरे त्वं मे चरितं शृणु सादरः ॥३२९॥ क्षेत्रेऽत्रैवाऽचलपुरे जितशत्रुर्नरेश्वरः । पुत्रोऽपराजितस्तस्य युवराजपदस्थितः ॥३३०॥ द्वितीयः समरकेतुः कुमारोऽवन्तिनायकः । प्रत्यन्तनृप उवृत्तोऽन्यदा समरकेशरी ॥३३१।। तं संसाध्य समागच्छन् युवराजोऽपराजितः । धर्मारामनिवेशस्थमाचार्य राहुमैक्षत ॥३३२॥ तं वीक्ष्य जातसंवेगः साग्रहो व्रतमाग्रहीत् । अन्यदा विहरन्नेष नगरान्नगरीमगात् ॥३३३।। तत्राऽवन्त्याः समायाताः पृष्टाश्च मुनयोऽमुना । उपसर्ग विना साधुविहारस्तत्र वर्तते ॥३३४|| प्रोचुस्ते भद्रकौ तत्र पुत्रौ राजपुरोधसोः । उपसर्गयतः साधूश्रुत्वेत्याख्यद् गुरोरयम् ॥३३५।। गतो गुरुगिराऽवन्तीमार्यराहुगणे स्थितः । भिक्षाकाले व्रजन्नेष स्थापितस्तैरुवाच च ॥३३६।।
अहं स्वलब्धिकस्तन्मे दर्श्यतां स्थापनाकुलम् । प्रेषितः क्षुल्ल एकस्तैः कुलदर्शनहेतवे ॥३३७॥ प्रत्यनीकगृहं गच्छन्निषिद्धः क्षुल्लकेन सः । निवृत्ते क्षुल्लकेऽविक्षत्कुमारस्यैव मन्दिरे ॥३३८।।
समरादित्यसंक्षेपः शब्देन महता धर्मलाभितोऽन्तःपुरीजनः । गच्छेति संज्ञया प्राह तमवाजगणत्तु सः ॥३३९।। धर्मलाभवचः श्रुत्वा कुमारौ तु तमागतौ । द्वारं पिधाय वन्दित्वा प्रोचतुर्नृत्य भिक्षुक ! ॥३४०|| स प्राह गीतवादित्रे विना नृत्यं कुतो भवेत् । तावूचतुर्गीतवाद्ये करिष्याव: प्रनृत्य तत् ॥३४१॥ भवत्वेवं मुनिप्रोक्ते गीतवाद्ये वितेनतुः । तावेष विषमे कुद्ध इव साधुरभाषत ॥३४२।। विज्ञानेनाऽमुना गोपपुत्रौ मां नर्तयिष्यतः । श्रुत्वेति कुपितौ साधुवधायैतावधावताम् ॥३४३|| नियुद्धकुशलः सोऽथ साधुस्तौ सर्वसन्धिषु । वियोज्य द्वारमुद्घाट्य गत्वा च ध्यानमास्थितः ॥३४४।। तौ निश्चेष्टौ च दृष्टौ स्वैः सिक्तौ वारा न तूचतुः । तत्पित्रोः साधुवृत्तान्ते कथिते तावुपागतौ ॥३४५।। वीक्ष्य राजा ययौ सूरिमार्यराहुं ननाम च । ऊचे च भगवन् बालापराधः क्षम्यतामयम् ॥३४६|| सूरिणोचे न जानामि तदेवाऽस्य च साधुभिः । मुनिनाऽऽगन्तुना स्याच्चेत्कृतमित्यथ ते जगुः ॥३४७।। तं दर्शयत राज्ञोक्ते दर्शितो ध्यानवानिमैः । राज्ञाऽथ प्रत्यभिज्ञातः सत्रपेण नतश्च सः ॥३४८।। वितीर्य धर्मलाभं स प्राह श्रावक ! युज्यते । त्वद्राज्ये वेदनर्षीणामुल्लुण्ठत्वं कुमारयोः ॥३४९।। नृपः प्राह प्रभोऽनेन प्रमादेनाऽस्मि सत्रपः । विधायाऽनुग्रहं तौ तु संयोजयत सन्धिषु ॥३५०।।
१. स्वलब्धक क ।