________________
षष्ठो भवः
गतैश्च दिवसैः कैश्चिदवधेरुपयोगतः । ज्ञात्वा देवेन सव्याधिः कृतो लोकेन नन्दितः ॥४२३|| तद्बन्धुभिस्तु सोऽन्विष्टो वैद्यः प्राप्तः कथञ्चन । उक्तः प्रशमने व्याधेर्व्रतमग्राहयत्पुनः ॥४२४ || पुनस्त्यक्तव्रते तस्मिन्महाव्याधिं सुरो व्यधात् । उक्तोऽथ बन्धुभिर्वेत्सि नात्मानमपि मूढधीः ||४२५॥ म्रियस्व तस्य वा वाक्यं कुरु स प्राह साम्प्रतम् । तं प्रेक्षे यदि तत्तस्य वचनं विदधाम्यहम् ||४२६ ||
गवेषितोऽथ तैर्दृष्टो वैद्यः प्रोक्तश्च सत्रपैः । तदेव तव पुत्रेण कृतं व्याधिर्महानभूत् ॥४२७||
ततः कोऽप्यस्त्युपायोऽत्र वैद्यः प्राहैष लम्पटः । निःपौरुषश्च दौर्गत्ये बह्वीः प्राप्स्यति वेदनाः ||४२८ ॥ आयुष्मतां तु युष्माकमुपरोधात्तमेकदा । तच्चिकित्सामि चेत्सार्धं मयैव हि स हिण्डति ॥ ४२९||
प्रतिपद्य तदेतैश्चाऽर्हद्दत्ताय निवेदितम् ।
नान्या गतिरिति ध्यात्वा प्रत्यपद्यत सोऽप्यदः || ४३०||
तैरानीतो भिषक् प्राह क्रीडेयं पश्चिमा ननु ।
त्वया भव्येन तद्भाव्यं तत्कार्यं यत्करोम्यहम् ||४३१ ||
अहं न क्वापि मोक्तव्योऽर्हद्दत्तस्तत्प्रपन्नवान् । चिकित्सित्वा च स प्रोक्तो मा भूः कापुरुषोऽधुना ॥ ४३२ ॥
देवेन तस्य चाऽगौणं गोणत्रितयमर्पितम् ।
नगरीतो विनिर्गत्य गतौ ग्रामान्तरे ततः ॥ ४३३||
देव: स्वमायया ग्रामं तं ज्वलन्तमदर्शयत् । विध्यापनाय तृण्यां च गृहीत्वा स्वं प्रधावितम् ||४३४||
२४९
२५०
समरादित्यसंक्षेपः
अर्हदत्तोऽवदद् दीप्तं किं विध्याप्यते तृण्यया । किं वेत्सीदं सुप्रोक्ते किं ज्ञेयममिह सोऽवदत् ॥४३५|| देव: प्रोवाच चेद्वेत्सि तत्क्रोधाऽनलदीपिते । गृहे गृहीतदेहैधः कथं विशसि बालक ! ||४३६ ॥ स्थितस्तूष्णीं न बुद्धस्तु ततः कण्टकसंकुले । देव: पथि व्रजन्नुक्तस्तेन त्यजसि किं समम् ॥४३७॥
देव: प्रोवाच वेत्सीदं यदि तत्किं शिवाध्वनः । रागादिकण्टकाकीर्णे भवमार्गे व्रजस्यहो || ४३८ ॥ स्थितस्तूष्णीं न संबुद्धो देवेनाथाऽस्य दर्शितः । जनैः प्रपूजितो यक्षः पुनः पुनरधः पतन् ॥ ४३९ ॥ निर्भाग्यो यक्ष इत्युक्ते तेन देवो जगाद तम् । यदीदं वेत्सि तत्किं त्वं प्रयासि नरकं प्रति ॥ ४४०||
स्थिते तूष्णीमसंबुद्धे तत्र कोलोऽथ दर्शितः । हित्वा धान्यतुषान्स्वादमानोऽमेध्यममेध्यधीः ||४४१ ॥ तेनोक्ते निर्विवेकोऽयं सुरः प्राहेति वेत्सि चेत् । तत्किं श्रमणतां हित्वा विषयान्बहुमन्यसे ||४४२ ॥ स्थिते तूष्णीमसंबुद्धे तत्र देवो वृषं व्यधात् । क्षेत्रमध्याविदूरस्थत्यक्तजञ्जमचारिकम् ||४४३||
शुष्ककूपैकदेशस्थदूर्वालेशाभिलाषुकम् ।
पतितं कूपके चूर्णीभूताङ्गोपाङ्गदुः स्थितम् ||४४४॥ युग्मम् अर्हद्दत्तस्तु तं वीक्ष्य प्राहाऽहो अस्य मूढता । देव: प्रोवाच जानाति यदीदं तत्कथं भवान् ॥४४५ ॥
हित्वा जञ्जुमचार्याभं क्षेत्रस्थं स्वर्गिणां सुखम् । दूर्वाभमर्त्यभोगेषु लुब्धः पतति दुर्गतौ ॥४४६॥ युग्मम्