________________
२५१
२५२
षष्ठो भवः श्रुत्वेति विगलत्कर्मा स दध्यौ कोऽप्ययं खलु । अमानुषो वदत्येवं भ्रातेव मयि वत्सलः ॥४४७|| ऊचे चाऽशोकदत्तस्य तुल्यः कोऽपि भवान्मयि । स प्राहाऽहं स एवाऽस्मि पर्यायाऽन्तरितः पुनः ॥४४८।। कः प्रत्ययोऽत्र तेनोक्ते देवः प्रोवाच यत्त्वया । भणितोऽहं हि वैताढये स्थगितं कुण्डलद्वयम् ॥४४९।। दर्शयित्वा प्रबोध्योऽहं तस्मात्तद्दर्शयामि ते । प्रत्ययेन किमन्येन तच्च प्रत्यशृणोदसौ ॥४५०॥ युग्मम् दिव्यरूपेण भूत्वाऽथ नीतो वैताढ्यपर्वते । सिद्धायतनकूटे तद्दर्शितं कुण्डलद्वयम् ॥४५१॥ स तद् रत्नावतंसाऽऽख्यमीक्षित्वा जातिमस्मरत् । प्रतिबुद्धः प्रपन्नश्च तत्क्षणं भावतो व्रतम् ॥४५२।। क्षमयित्वा गतो देवः सोऽहं सौवस्तिकाङ्गजः । विराधकानां तबुद्धिर्धर्मशीले न जायते ॥४५३।। जितमोहरिपूणां च निर्वहत्येव संयमः । नान्यच्च रम्यं तत्तेन नृजन्म सफलं कुरु ॥४५४|| धरणः प्राह भगवंस्तवाऽदेशोऽस्तु मेऽनघः । पित्रोराख्यामि किं त्वेतद्भवेद् बोधस्तयोरपि ॥४५५।। गुरुणा युक्तमित्युक्ते विबुद्धसुहृदन्वितः । गृहं गत्वा व्यतिकरं पित्रोराख्यातवांश्च तम् ॥४५६|| ततस्ताभ्यां प्रबुद्धाभ्यां वयस्यैश्च समन्वितः । अर्हद्दत्तगुरोः पार्श्वे कृतकृत्योऽग्रहीद् व्रतम् ॥४५७।। श्रुतेऽधीती समाम्नाती क्रियास्वेष क्रमादभूत् । एकत्वप्रतिमायोग्यो जातोऽपृच्छद् गुरूनयम् ॥४५८।।
समरादित्यसंक्षेपः गुरुणाऽनुमतः सोऽथ प्रपन्नः प्रतिमामिमाम् । अलिप्तस्तामलिप्त्याः स्वैस्तस्थौ प्रतिमया बहिः ॥४५९॥ इतो देवपुरान्निर्वासिता लक्ष्मीर्गवेषिता । दृष्टा सुवदनेनैषा निवेशे नन्दिवर्धने ॥४६०।। घटिता च समं तेन तामादाय गतोऽथ सः । चीनद्वीपेऽथ कालेन तामलिप्त्यां समाययौ ॥४६१।। युग्मम् तस्थौ बहिर्निवासे च तया लक्ष्म्या समन्वितः । अथोद्यानं गता लक्ष्मीर्धरणर्षिमवैक्षत ॥४६२।। तमेष प्रत्यभिज्ञाय गुरुकर्मत्वजाड्यतः । क्रोधानलमसेविष्ट तापायेव समुद्यता ॥४६३।। अचिन्तयच्च मत्पापपरिणामो महानहो । यद् दृष्टः पुनरप्येष कथं व्यापाद्यते पुनः ॥४६४।। प्राप्तकालमिदं छिन्नकङ्कणं कण्ठभूषम् । स्थापयित्वा समीपेऽस्य मुष्टा मुष्टेति पुष्टगीः ॥४६५।। करोमि तुमुलं येनोद्यानस्यैकान्तभावतः । ग्रैवेयकस्य रम्यत्वाच्चौरसम्भावना भवेत् ॥४६६।। तच्चण्डाज्ञेन राज्ञासौ सुखं व्यापादयिष्यते । कल्ये ह्याददिरे स्तेनाः सलोप्ता भिक्षुरूपिणः ॥४६७|| लिङ्गिनोऽपि हि कुर्वन्ति चौरिकामिति चाऽभवत् । प्रसिद्धिस्तदुपायोऽयं भव्योऽस्तीति व्यधात्तथा ॥४६८|| कलापकम् प्राप्तो मुनिरथाऽऽरक्षैर्जल्पितश्च न जल्पति । वीक्षमाणैस्तदासन्नं दृष्टं ग्रैवेयकं पुनः ॥४६९।।
१. छिनं ख ग घ । २. प्राप्तोपि मुनिरार ख ग घ च, प्राप्तोथ मुनिरार ङ ।