________________
षष्ठो भवः
२५३
२५४
तच्छिन्नकङ्कणं वीक्ष्य मतं जनपदैरिदम् । आख्यातं नृपतेदेवाऽपूर्वः प्राप्तो मलिम्लुचः ॥४७०|| विस्मितो नृपतिः प्राह निरूप्य हत तं शठम् । तलारक्षेण पृष्टोऽथ न किञ्चिदपि जल्पति ॥४७॥ अहो धूर्तत्वमस्येति कुपितैरधिकं च तैः । नीतो वध्याऽवनीं तत्र निखाता शूलिकोच्छ्रिता ॥४७२।। उत्क्षिप्तश्च मुनिः क्षेप्तुं चण्डालेनोदघोषि च । अहो लोकाः कृतं स्तैन्यं साधुवेषभृताऽमुना ॥४७३।। ततोऽसौ वध्यतेऽन्योऽपि यः कोऽप्येवं विधास्यति । राजा सुतीक्ष्णदण्डस्तमित्थं व्यापादयिष्यति ॥४७४|| इत्याघोष्य विमुक्तोऽयं तपसस्तु प्रभावतः । शूलिका तूलिका जज्ञे न विद्धो मुनिपुङ्गवः ॥४७५।। जज्ञे कुसुमवृष्टिश्च देवसान्निध्यतो मुनौ । धर्मो जयति पूज्योऽयमिति कलकलोऽजनि ॥४७६|| पञ्चभि: कुलकम् आख्यातं नृपतेर्जातप्रमोदः स समाययौ । नत्वा सविस्मयं पृष्टो न किञ्चिदपि सोऽवदत् ॥४७७|| मन्त्रिणाऽथ नृपः प्रोक्तो देव व्रतविशेषवान् । अधुनाऽपि कुतो हेतोस्तवाग्रे मन्त्रयिष्यति ।४७८|| तामेव सार्थवाहस्य तदाह्वयत गेहिनीम् । प्रेषिताश्च तलारक्षाः सा श्रुत्वेति पलायिता ॥४७९॥ अदृष्टायां तलारक्षः क्षितीशाय निवेदितम् । नष्टा सा देव नष्टा न सदनादिषु दृश्यते ॥४८०।। नृपः प्रोवाच यत्नेनाऽन्वेष्याऽऽनयत तामिह । बाढं गवेषितोद्यानादिषु दृष्टा तु तैर्न सा ॥४८१॥
समरादित्यसंक्षेपः तन्निशम्य जनान् नश्यन् दृष्टः सुवदनस्तु तैः । धृत्वाऽऽनीय तलारक्षैर्नृपायेति निवेदितम् ॥४८२।। देव पुर्या न साऽस्त्यस्यां तस्याः पतिरयं पुनः । प्रणश्यञ्जगृहे देवः प्रमाणमिह साम्प्रतम् ॥४८३॥ नृपो निरूप्य तं प्राह क्व ते भद्र नितम्बिनी । न जानामीति तेनोक्ते राज्ञोचे तत्कुतोऽनशः ॥४८४।। स प्राह भीत्या राज्ञोचे का भीतिः स्यान्निरागसः । तेनोचे देव मेऽस्त्यागो नृपतिः प्राह कीदृशम् ॥४८५॥ स प्रोवाच तथारूपपरिग्रहपरिग्रहः । राज्ञोचे ते भयं तस्या यतेश्चाख्याहि मे कथम् ॥४८६।। निरीक्ष्य धरणं साधुमुपलक्ष्य च बाष्पभृत् । विस्मितस्तच्चरित्रेण नृपं सुवदनोऽवदत् ॥४८७।। न वृत्तान्तं यतेरस्य वक्तुं देव ! क्षमोऽस्म्यहम् । नृपः प्राह वदाऽवाच्यं किमप्यस्तीह किं भवे ॥४८८|| ततः सुवदनः प्राह देवैकान्तं समादिश । राज्ञा निरीक्षितः सर्वोऽपसृतश्च परिच्छदः ॥४८९।। धरणर्षिमयं वीक्ष्य संजाताऽनुशयोऽवदत् । देवाऽहं पापकर्माऽस्मि नरश्वा न पुनः पुमान् ॥४९०।। नरो हि विरतोऽकृत्यात् कृतज्ञः सत्यसंगरः । उपकारी भवाद्भीर्यथेष भगवानिह ॥४९१|| नृपः प्राह नरश्वा स्यात् कथमेवंविधो भवान् । प्रस्तुतं वद तद्भद्र ! ततः सुवदनोऽवदत् ॥४९२।। आरभ्य स्वर्णद्वीपस्य दर्शनान्नृपतेः पुरः । अष्टलक्षस्वर्णदानावसानामस्य तां कथाम् ॥४९३।। युग्मम्