________________
द्वितीयो भवः
तस्याऽऽख्यं स तु मायावी व्यर्थ कोलाहलं व्यधात् । ततः प्रसप्तः सर्पविषाज्जीवितमत्यजम् ।।१७०॥ सम्यक्त्वस्य प्रभावेण पल्यायुत्रिदशोऽभवम् । अहं लीलावतंसाख्ये विमाने प्रथमद्यवि ॥१७१।। रुद्रदेवस्तु तां कन्यामुपयम्य तया समम् । भोगान्भुक्त्वा ततो मृत्वा पल्यायुर्नारकोऽजनि ॥१७२।। अहं स्वर्गाच्च्युतोऽभूवं सुंसुमारगिरौ गजः । उद्वत्तो नरकादन्यस्तत्रैवाद्रौ शुकोऽभवत् ॥१७३।। दृष्टस्तेन खलेऽनाहं खेलन्सार्धं करेणुभिः । हृदि द्वेषं दधानश्च दध्यौ कि द्वेषकारणम् ॥१७४|| इति चिन्तयतस्तस्य जातिस्मृतिरजायत । भोगेभ्योऽयं कथं वञ्च्य इत्युपायमचिन्तयत् ॥१७५।। जामि मगाइसेनस्य चन्द्ररेखाभिधामथ । हृत्वा विद्याधरो लीलारतिनामा समागमत् ॥१७६|| स शुकं प्राह कुञ्जेऽहं स्थास्याम्यत्राऽन्यखेचरः । आगन्ताऽस्य न कथ्योऽहं त्वया मदुपकारिणा ॥१७७|| इत्युक्त्वाऽद्रिनिकुञ्जान्तमिथुने तत्र तस्थुषि । नारङ्गस्थे शुके विद्याधर आगत्य यातवान् ॥१७८।। तदा मामागतं वीक्ष्य तत्रोद्देशे वशान्वितम् । शुकोऽध्यायदियं वेला स्वमनोरथपूरणे ॥१७९॥ मायावी जायया साधू मन्त्रयित्वैष मेऽन्तिके । आगत्योचे प्रियेऽश्रावि वसिष्टात्स्वगुरोर्मया ॥१८०।। यदत्रास्ति महाशैले पतनं सर्वकामदम् । यो यदिच्छति तत्तस्य तत्कालमुपतिष्ठते ॥१८॥
समरादित्यसंक्षेपः वसिष्ठो भगवान्पृष्ठो मया स्थानं कृपापरः । अस्य शालतरोमिपार्बेनेति समादिशत् ।।१८।। प्रिये तदलमेतेन पशुत्वेन भृगोरितः । कृत्वा विद्याधरत्वस्य प्रणिधानं प्रपत्यते ॥१८३।। प्रिययाऽङ्गीकृते युग्मं प्रणिधाय पपात तत् । आख्यच्च लीलारतये सप्रियः खेन सोऽगमत् ॥१८४|| तद्वीक्ष्य मयकाऽध्यायि प्रभावस्तीर्थजः कियान् । देवत्वप्रणिधानेन तदितो निपताम्यहम् ॥१८५।। ध्यात्वेति पतितोऽमात्रगात्रभङ्गनिपीडितः । शुकयुग्मं तदुड्डीनं तदा नाऽहमलक्षयम् ॥१८६।। अकामनिर्जरायोगाद् व्यन्तरत्वमुपागतः । अहं देशोनपल्यायु रकत्वं शुकः स तु ॥१८७|| च्युत्वाऽहं विजयेऽन्यस्मिश्चकवालाऽभिधे परे । अप्रतिहतचक्रस्य सार्थवाहस्य नन्दनः ॥१८८|| जातः सुमङ्गलाकुक्षौ चक्रदेवोऽभिधानतः । उद्धृत्य सोऽपि तत्रैव नगरे शुकनारकः ॥१८९|| सोमशर्माभिधस्याऽभून्नराधिपपुरोधसः । उदरे नन्दिवर्धन्या यज्ञदेवाख्यया सुतः ॥१९०॥ विशेषकम् मम तेन समं मैत्री सद्भावात्तस्य कैतवात् । गवेषयन्नपि च्छिद्रं मदीयं लभते न सः ॥१९१॥ अथ चन्दनसार्थेशसर्वस्वमपहत्य सः । मुक्त्वा मन्मन्दिरेऽवोचदेतद्यलेन गोपय ॥१९२॥ अकालानयजाज्जातशङ्केनाऽनिच्छऽताऽपि हि । मया दाक्षिण्यबाहुल्यात्तद्रव्यं गोपितं गृहे ॥१९३।।