SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भवः इति सम्पूर्णतां याते दारकर्ममहोत्सवे । वर्षलक्षा ययुर्बख़्यस्तयोविषयसेवया ॥१४७॥ कुमारः कौतुकी वाहवाहनाय गतोऽन्यदा । उद्याने नागदेवस्य प्रदेशे प्रासुके स्थितम् ॥१४८।। आवृतं साधुवर्गेण साधुधर्ममिवाङ्गिनम् । सूरि श्रीधर्मघोषाख्यमद्राक्षीद् द्वादशाङ्गिनम् ॥१४९।। तत्र गत्वा च नत्वा च तमपृच्छदतुच्छधीः । आददे भवता दीक्षा कुतो निर्वेदतः प्रभो ! ॥१५०॥ गुरुः प्रोवाच संसारे सर्वं निर्वेदकारणम् । विशेषादवधिज्ञानिचरित्रं यन्मया श्रुतम् ॥१५१|| तथाहि विजयेऽत्रैव पुरे राजपुरे सदा । स्वभावेन भवोद्विग्नचित्त एव वसाम्यहम् ॥१५२।। तत्र जातावधिज्ञानोऽमरगुप्तो गणेश्वरः । बहुसाधुपरीवार उद्याने समवासरत् ॥१५३|| मत्वा तमागतं राजा सपौरोऽप्यरिमर्दनः । आगत्य नत्वा तद्दत्तधर्मलाभ उपाविशत् ॥१५४॥ अपृच्छच्च समुत्पन्नमवधिज्ञानमद्भुतम् । युष्माकं चरितं स्वं तन्ममादिशत बोधितः ॥१५५।। ऊचे ज्ञानी महाराज ! शृणु ते यदि कौतुकम् । नगरं विजयेऽत्रैव चम्पावासाभिधं पुरा ॥१५६॥ आसीद्गृहपतिस्तत्र सुखज्ञ इति नामतः । धनश्रीकुक्षिभूस्तस्य सोमाऽहं तनयाऽभवम् ॥१५७|| तत्र सार्थेशनन्दस्य नन्दनः परिणीतवान् । रुद्रदेवाभिधानो मां भेजे च विषयानयम् ॥१५८|| समरादित्यसंक्षेपः अन्यदा बालचन्द्राऽऽभनिष्कलङ्कचरित्रभूः । गणिनी बालचन्द्राऽऽख्या विहारेण समागमत् ॥१५९।। तामपश्यं पितुर्वेश्म यान्ती श्वशुरमन्दिरात् । श्रद्धाशुद्धाशया भक्त्या प्रणामं च समाहिता ॥१६०॥ धर्मलाभे तया दत्ते पृष्टस्तस्याः प्रतिश्रयः । मध्याह्ने तत्र गत्वा तां पर्युपासिषि सादरम् ॥१६१।। तया मे पूज्ययाऽऽख्यायि कर्मदावदवानलः । निर्वाणसुखकल्पद्रुर्धर्मः सर्वज्ञभाषितः ॥१६२।। बोधि लब्धवती कर्मक्षयोपशमतः पराम् । संसारचारकोद्विग्ना संविग्नाऽस्मि निरन्तरम् ॥१६३।। रुद्रदेवस्तु दुष्कर्मा दोषात्प्रद्वेषमावहन् । ऊचे धर्ममिमं मुञ्च मूढे विषयविघ्नदम् ॥१६४॥ विपाककटुना भोगसौख्येनाऽलं मयोदिते । स प्राह वञ्चिताऽसि त्वमदृष्टसुखवाञ्छया ॥१६५।। पशुक्रियाऽभिधा यस्य तत्कि विषयजं सुखम् । मानुषा तु क्रिया ज्ञेया धर्म एष दयामयः ॥१६६|| मयेत्यक्ते स विद्विष्टो मां हित्वाऽन्यामयाचत । कन्यां नागश्रियं नागदेवसार्थेशनन्दनाम् ॥१६७|| नाऽदात्तां नागदेवस्तु मत्तातबहुमानवान् । रौद्रोऽथ रुद्रदेवो मन्मृत्यूपायमचिन्तयत् ॥१६८।। कुम्भे न्यस्याऽन्यदा नागं तेनोक्ता माल्यमानय । हस्ते न्यस्ते च कुम्भान्तर्दष्टा दुष्टेन भोगिना ॥१६९|| १. परं क ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy