________________
सप्तमो भवः
२९९
३००
निर्वेदोऽजनि तस्माच्च व्रतं तस्माच्च नाऽपरम् । उपादेयं किमप्यस्ति प्रकृत्या निर्गुणे भवे ॥४८९॥ जीवितं बहुलं क्लेशैविनश्वर्यश्च सम्पदः । अकाण्डभङ्गकृन्मृत्युर्विनिर्जितसुरासुरः ॥४९०।। प्रमादचेष्टितं स्वल्पमप्यनल्पव्यथाप्रदम् । अत्राऽर्थे गुरुभिः प्रोक्तां ममाऽग्रे त्वं कथां शृणु ॥४९१।। अस्त्युत्तरपथप्रष्ठे नगरे वर्धनापुरे । सपत्नैरजितो राजा नामतो जितवर्धनः ॥४९२॥ तत्रास्ति सदश्चन्द्राजानिः सर्गः सुतोऽस्य तु । पूर्वकर्मानुभावेन तानि दारिद्ममन्दिरम् ॥४९३॥ सद्वडेऽथ मृते चन्द्रा कुक्षिपूरणहेतवे । कर्म कर्तुं समारेभे परकीयेषु वेश्मसु ॥४९४।। सर्गः सर्गेन्धनाद्यं तु वनादानेतुमुद्यतः । इत्थं याति तयोः कालो दुःखदारिद्रदूनयोः ॥४९५।। अन्यदा धूसरश्रेष्ठिगृहे जामातुरागमे । वार्यानेतुं समाहूता चन्द्रा तन्द्राविवजिता ॥४९६|| पुत्रस्यागमवेलेति शिक्ये तद्योग्यभोजनम् । संस्थाप्य सा गता द्वारं बद्ध्वा किटिकया रयात् ॥४९७|| सर्ग: समागतो नाऽम्बामपश्यत्कुपितोऽथ सः । न शिक्यमैक्षताम्बापि स्तोककालात्समागता ॥४९८॥ सर्गः प्रोवाच तत्र त्वं भिन्न शूलिकया कथम् । मम क्षुधाऽभिभूतस्य वेला काऽपि व्यतीयुषी ॥४९९।। तयाऽपि दनया श्रेष्ठिसदने नाप्तवित्तया । प्रोचे हस्तौ कथं छिन्नौ यन्नात्तं शिक्यतोऽशनम् ॥५००।।
समरादित्यसंक्षेपः तदा दुर्वाक्यतस्तस्मात्ताभ्यां कर्म सजितम् । अन्यदा मानतुङ्गः: श्राद्धधर्मः समाददे ॥५०१|| प्रपन्नश्रावकत्वौ तौ कालेन कियताऽपि हि । चारित्रपरिणामेनाऽगृह्णीतां व्रतमुत्तमम् ॥५०२।। त्यक्त्वा देहं दिवं यातौ सर्गः स्वर्गच्युतोऽजनि । तामलिप्तेभ्यकुमारदेवजीजुकयोः सुतः ॥५०३।। क्रमेणाऽरुणदेवाख्यः कुमारत्वमवाप सः । चन्द्राजीवोऽपि हि च्युत्वा नगरे पाटलापथे ॥५०४।। जसादित्यमहेभ्यस्येल्लायां पल्यां सुताऽभवत् । देइणीति कृताभिख्या कुमारीत्वमवाप च ॥५०५।। विशेषकम् सा दत्ताऽरुणदेवाय भवितव्यनियोगतः । अवृत्तेऽपि विवाहेऽसौ यानपात्रे गतः पुनः ॥५०६।। महाकटाहतस्तस्य वलमानस्य दैवतः । यानपात्रं विपन्नं तन् महादुर्मरुता हतम् ।।५०७।। महेश्वरद्वितीयोऽथाऽरुणदेवः पयोनिधिम् । फलकेन समुल्लङ्घ्य समेतः पाटलापथे ॥५०८|| प्रोक्तो महेश्वरेणैष तवाऽत्र श्वशुराश्रयः । तत्तत्र गम्यते सोऽथ प्रोचेऽवस्था न तादृशी ॥५०९।। यादृश्यां गम्यते तत्र ततः प्राह महेश्वरः । तिष्ठ देवकुलेऽत्र त्वं यावद् भोजनमानये ॥५१०॥ महेश्वरः प्रविष्टोऽथ पाटलापथमध्यतः । तत्र देवकुले सुप्तोऽरुणदेवस्तु निद्रया ॥५११।। तदोदीर्णं च देइण्याः कर्म दुर्वाक्यजल्पजम् । भवनोद्यानगामेनामपश्यत्कोऽपि तस्करः ॥५१२॥