SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ २९७ २९८ सप्तमो भवः दारुणेऽथ रणे जाते मुक्तापीठकुमारयोः । निहतः सेनखड्गेन मुक्तापीठोऽपद्भुवि ॥४६५।। जितमित्यूजितो जज्ञे कल: कलकलस्ततः । जयश्रियः प्रवेशार्थमिव तूर्यमथाऽध्वनत् ॥४६६|| कुमारेण स्वयं सोऽथाऽऽश्वासितः सलिलानिलैः । श्लाघितश्च न कीर्तिस्ते स्वं राज्यं त्वाददे मया ॥४६७।। ततस्त्वया न संतप्यं विषेणादधिको यतः । भ्राता मम त्वमित्युक्त्वा तं निजावासमानयत् ॥४६८।। व्रणपट्टान्निबध्याऽथ पूजयित्वा च सादरम् । न्यायसार: कुमारस्तमप्रैषीन्निजनीवृत्तिम् ॥४६९।। ऊचेऽमरगुरुं चैष विषेणोऽन्विष्यतां क्वचित् । यथा पुनः स चम्पायां महाराजो विधीयते ॥४७०॥ स प्राह यामश्चम्पायां तत्र सोऽप्यानयिष्यते । सेनः प्रोचे महाराजस्तातादिष्टः स एव तु ॥४७१।। आदेश इति मन्त्र्युक्ते प्रेष्य मुख्यनरान्निजान् । अधिचम्पं ययौ सेनोऽभ्युद्गतश्च पुरीजनैः ॥४७२।। विज्ञप्तस्तैः प्रवेशाय महाराजः समेत्विति । उक्त्वा तस्थौ बहिस्तेऽथ समेयुः प्रेषिता नराः ॥४७३।। मन्त्रिणे कथयामासुः पुरीं प्राप्तैः कृतार्गलाम् । दृष्टोऽस्माभिः कुमारोऽस्य वृत्तान्तः कथितोऽखिलः ॥४७४|| ततो दूनः स्वयं न्यूनः समुच्छूनरदच्छदः । विषेणोऽयं विषेणेव मिश्रां वाचमुवाच सः ॥४७५॥ राज्यं कदाऽपि नैवाहं कुर्वे परभुजाऽजितम् । तयूयं यात नाऽगम्यं पुनरत्र कदाचन ॥४७६।। समरादित्यसंक्षेपः दध्यौ मन्त्री न योग्योऽयं देवस्य प्राग्भवद्विषन् । ध्यात्वेत्येतत्कुमारस्य सनिर्वेदो न्यवेदयत् ॥४७७|| कुमारोऽथ स्वयं राज्यनि:स्पृहः प्रोचिवानिति । तं विनाऽनेन राज्येन ध्वान्तनृत्तेन को गुणः ॥४७८।। मन्यूचे देव ! संत्यज्य विषादं पालय प्रजाः । सेनः प्रोचे स्वपुण्येन रक्ष्यन्ते हि प्रजाः स्वयम् ॥४७९।। तदा च ज्ञातवृत्तान्त उद्दिधीर्षुर्भवार्णवात् । आचार्यो हरिषेणोऽस्य पितृव्यः श्रव्यगीर्बुधैः ॥४८०॥ अमात्रकरुणापात्रमागच्छत्साधुभिर्वृतः ।। स्थितश्च नष्टशोकाख्ये वने ज्ञातश्च पूर्जनैः ॥४८१।। युग्मम् लोकवार्तानियुक्तास्तमाकर्ण्य प्रेक्ष्य च स्वयम् । वेत्रिण्यै कथयामासुः साऽऽख्यच्च नृपसूनवे ॥४८२।। सेनस्तस्यै च तेभ्यश्च प्रवरं पारितोषिकम् । दत्त्वाऽमरगुरुं प्राहाऽनभ्रं पीयूषवर्षणम् ॥४८३।। स प्रोचे देव ! धन्योऽसि त्वं च कल्याणभाजनम् । ततस्तेन समं यात: कुमारस्तत्र कानने ॥४८४|| दृष्टश्च तत्र निर्मोहः सहितो ज्ञानसम्पदा । शरन्नीरामलस्वान्तः शङ्खवच्च निरञ्जनः ॥४८५।। लोकद्वयनिराकाङ्क्षो मुक्तिमार्ग इवाऽमलः । भगवान्हरिषेणाख्यः सूरि•रितदुष्कृतः ॥४८६।। युग्मम् दृष्ट्वा तमनमस्तैष गुरुणा धर्मलाभितः । तस्थौ रोमाञ्चबाष्पाभ्यां प्रमोदं प्रोगिरन्निव ॥४८७।। उक्तो भगवता चैष वत्स ! त्वं भावधर्मवित् । सुन्दरः सर्वचेष्टासु यतस्त्वन्निर्गमेण मे ॥४८८।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy