________________
२९५
२९६
सप्तमो भवः दिनैः कतिपयैः शान्तिमती सुतमजीजनत् । सेनस्तस्य ददौ नामाऽमरसेन इति स्वयम् ॥४४१|| चम्पातश्चाऽन्यदा चारः समायातो न्यवेदयत् । देवाऽचलपुरस्वामी चम्पाराज्यमुपाददे ॥४४२॥ मुक्तापीठाभिधः कोशकोष्ठागारसमन्वितम् । विनष्टप्रकृतिर्नष्टो विषेणस्तु विदूरतः ॥४४३।। युग्मम् ततोऽमरगुरोर्ज्ञातवृत्तान्तोऽमरसेनजः । सामर्ष प्रोचिवान् राज्ये स्थापयाम्यनुजं पुनः ॥४४४|| तदा जगर्ज मत्तेभो देवो जयतु मन्त्रिणा । प्रोक्तं दक्षिणबाहुश्च कुमारस्याऽस्फुरत्ततः ॥४४५।। सेनोऽमरगुरुं प्राह कथयैतन्महीभुजे । कथितेऽथ महीभर्ता प्राह मेऽसौ पराभवः ॥४४६|| तत्प्रेषयामि विक्षेपं तं साधयितुमञ्जसा । मन्यूचे प्रेष्यतां सेनो विक्षेपाऽधिपतिस्ततः ॥४४७|| नृपेणाऽस्त्वेवमित्युक्तेऽमर्षदुर्धषमानसः । प्रणम्य नृपति सेनस्तत्रैव दिवसेऽचलत् ॥४४८॥ आरूढो हस्तिनं हस्तितुरङ्गमरथस्थितैः । स निरैन्नगराद्वीरैः समं शकः सुरैरिव ॥४४९।। पुरान्निर्गच्छतस्तस्य जगर्जाऽत्यूजितं गजः । कुमारो जयतीत्युक्तं सैनिकैः सकलैस्ततः ॥४५०|| प्राप्तेऽत्र देशसीमानं मुक्तापीठोऽप्यथाऽऽगमत् । तस्य दूतः कुमारेण प्रहितो नीतिरीतितः ॥४५१|| तेनोक्तः पैतृकं राज्यं परित्यज्य मम व्रज । भवाऽथ संयुगे सज्जः स ससर्ज गिरं ततः ॥४५२॥
समरादित्यसंक्षेपः सिंहेनेव वनं राज्यं मयोपात्तं निजैर्भुजैः । न मुञ्चे युधि सज्जस्तु नेतुं त्वामन्तकाऽन्तिकम् ॥४५३।। स्वभर्तुरिदमाख्याहि गत्वा दूतोऽथ तज्जगौ । क्रोधानलः कुमारस्योहिदीपेऽथ हृदन्तरे ॥४५४|| धीरत्वेन धृतोऽप्येष भृकुटीधूमरेखया । शोणत्वेन च नेत्राणां जनैरनुमितः परैः ॥४५५।। ऊचेऽथ युद्धश्रद्धालोरस्य श्रद्धा प्रपूर्यताम् । श्राद्धदेवो महीदेवो युद्धश्राद्धेऽत्र तृप्यतु ॥४५६।। ततो द्वावपि तौ कृत्वा प्रसादं भटसंहतेः । दत्त्वा दीने जने दानं युद्धसज्जौ बभूवतुः ॥४५७।। प्रातश्च हस्तिकाश्वीयरथ्यापादातसङ्कले । उभे चापि महासैन्ये निर्दैन्ये मिलिते मिथः ॥४५८।। ततः शरसमूहेन च्छन्नसूरं द्विधाऽपि हि । निशिताऽसिहताऽनेकपतद्वर्यपदातिकम् ॥४५९।। सादिक्षिप्तमहाकुन्तभिन्नमत्तमतङ्गजम् । मतङ्गजावमर्दोत्थभीतिवित्रस्तभीरुकम् ॥४६०।। रथिक्षिप्तक्षुरप्रौघच्छिन्नच्छत्रध्वजव्रजम् । व्रजस्थितचमूमध्यमिलितक्षितिनायकम् ॥४६१।। इतः समेहीत्याहूतवलमानभटोत्कटम् । अन्योऽन्यमदगन्धोत्थमत्सराऽऽयातसामजम् ।।४६२।। संतुष्टभटसंदृष्टकबन्धाबद्धताण्डवम् । उभयोरपि संजातं समनीकमनीकयोः ॥४६३।। पञ्चभिः कुलकम् मुक्तापीठः समुत्थाय सेनसेनाममर्षणः । बभञ्जाऽथ कुमारोऽपि समुत्तस्थौ ससैनिकः ॥४६४।।