________________
सप्तमो भवः
स्तोकया वेलया जातसामर्थ्यश्वोत्थितो नृपः । वैद्यैरुक्तं कुमारस्य प्रभावोऽयमहो महान् ॥ ४१८॥
हृष्टाश्च मन्त्रिणो नृत्ता देव्यः प्रोवाच भूपतिः । न नष्टस्मृतिना ज्ञातं मया किं किमभूदिह ॥ ४१९ || जीवानन्देन कथिते तुष्टः प्राह नराधिपः । कुमारेऽमृतरूपे स्यादवकाशो मृतेः कुतः ||४२०|| सेनः प्राह प्रसादोऽयं गुरुदेवसमुद्भवः । नृपोऽवोचदिमे प्राणास्तव योज्या यथोचितम् ॥४२१॥ गुरवो यूयमित्युक्ते सेनेन नृपतिर्जगौ । गुरुवाक्यमलङ्घ्य हि न मोच्योऽहं ततस्त्वया ॥४२२||
सेनेनाऽऽदेश इत्युक्ते वेश्मने विससर्ज तम् । नृपतिस्तन्नियुक्तं च प्रोचे परिजनं निजम् ॥४२३॥
कुमारसंगतः कश्चिदेति यः स निवेद्य मे । कुमारस्य ततः प्रेष्य आदेश इति तेऽवदन् ॥४२४||
अन्यदाऽमरगुर्वाख्यो मन्त्रिपुत्रः समागतः । राज्ञे निवेदितस्तेन पूजितो भणितश्च सः ॥ ४२५ ॥
भद्र ! सेनः कुमारोऽयं जीवितादधिको मम । प्रतिपन्नं तथैतेन यत्त्वं मोच्यो मया न हि ||४२६ || तत्तथा भवता कार्यं यथाऽऽवां स्वः स्थितौ सुखम् । स प्राह भवता देव ! सेनः सेनः किमुच्यते ॥ ४२७॥
यच्चादिष्टमहं तत्रोपयुक्तोऽस्मि विधिर्यथा । सेनाय प्रेषिता राज्ञाऽथ तदागमवर्धकाः ॥४२८||
प्रेषितश्च स निर्गच्छन् दध्यावत्रेति युज्यते । यदेष न त्यजन्त्येनं सेनं विश्वपुरेश्वरः ||४२९ ||
२९३
२९४
समरादित्यसंक्षेपः
यतो वशीकृतं राज्यं विषेणेन कृपामयः । कुमारोऽस्मिश्च तातेन प्रोक्तः प्रव्रजिताऽम्यहम् ||४३०||
हारयिष्यत्यसौ राज्यं कुमारस्तूद्धरिष्यति । तच्चारब्धं विषेणेन सामन्ताद्यपमानतः ॥ ४३१||
प्रजानां पीडनाद् बाढमुचिताचारलङ्घनात् । लोभाच्च तदवस्थानं सेनस्याऽत्रैव सुन्दरम् ||४३२|| कलापकम्
ध्यायन्नित्ययमायातो द्वाःस्थेन च निवेदितः ।
कुमारोऽथ समुत्थाय तमाश्लिष्य च पृष्टवान् ॥४३३॥
क्षेमोऽस्ति तातपादानां कुमारस्य च सोऽवदत् । क्षेमोऽस्ति तवाऽदृष्टेविषण्णो हरिषेणराट् ॥४३४||
दत्त्वा राज्यं विषेणस्य तातप्रभृतिभिः सह । प्रधानैर्जगृहे दीक्षामनाकाङ्क्षो वपुष्यपि ॥ ४३५ || सेन प्रोचेऽभवद्युक्तमिदं किं नु कुमारतः । सुखिन्यस्ति प्रजा सोऽथ प्रोचेऽनाथेव साऽस्त्यलम् ||४३६ ॥
सेन प्राह कुतोऽनाथा विषेणे तत्र जीवति । वेत्रिण्याऽथ क्षुते देवो जीवत्विति बभाण सः ॥४३७॥
स्फुरितं वामचक्षुश्चाऽनिष्टं भावि किमप्यदः । ध्यात्वेति स प्रियां प्राहाऽऽर्यस्य कालोचितं कुरु ||४३८||
तयाऽथ कारिते तस्मिन्देहवृत्तिं समार्थयत् ।
कुमार: स्वाधिकारं स जग्राह मुदितश्च तम् ||४३९|| प्रेषिताश्च विषेणस्य राज्ये प्रणिधयोऽमुना । निज: परिजनो वृद्धि कुमारस्याऽऽप च क्रमात् ॥४४०||
१. कारितं खङग घः समार्पयत् क ग घ ।