SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सप्तमो भवः २९१ दध्यौ सेनः स एवाऽयं पादपः प्रियमेलकः । दृश्यन्ते युग्मरूपाणि यत्पुष्पाणि सितानि च ॥३९५।। पल्लीशाय समाख्याय पूजोपकरणं च सः । आनाय्याऽपूजयत्कल्पतरुमेकाग्रमानसः ॥३९६|| तुष्टाऽथ देवता तस्य प्रत्यक्षीभूय तं जगौ । तुष्टाऽस्मि वत्स ! किं ब्रूहि प्रियं ते क्रियतामतः ॥३९७|| स प्राह कि प्रियं मे स्यादेवि ! त्वदर्शनाधिकम् । देवी प्रोचेऽनुरूपे ते निरीहत्वविविक्तते ॥३९८॥ तथापि हि गृहाणैतं मणि नरशिरोमणे ! । परोपकृतयेऽशेषविषरोगनिषेधकम् ॥३९९॥ सेनस्ततस्तदारोग्यरत्नमादाय देवताम् । ववन्दे सा चिरं जीवेत्युदित्वा च तिरोदधे ॥४००।। तापस्यो जहषुर्वीक्ष्य तं देवीबहुमानितम् । ऊचुश्च मध्यसन्ध्यातिकमो यामस्ततो वयम् ॥४०१।। सेनः प्रोचे कुलपति वन्दिष्येऽहं ततः समम् । यामः परिजनेनाऽथ युतोऽनंसीन्मुनीश्वरम् ॥४०२॥ तापस्याख्यातवृत्तान्तस्तुष्टस्तस्मै मुनीश्वरः । पत्नीं समर्प्य प्रोवाच मम धर्मसुता ह्यसौ ॥४०३|| मम च्छिन्नभवस्याऽपि गुणानां पक्षपाततः । प्रतिबन्धो महानस्यां तद् द्रष्टव्या तथा त्वया ॥४०४|| कुमारः प्राह भगवन् यदादिशति मे भवान् । तदा क्व दृश्यो भगवानित्यरोदीन्नृपात्मजा ॥४०५।। प्रोचे कुलपतिश्चैनां वत्से धर्मरतेस्तव । दूरे नाऽस्युपदेशेऽवस्थितियन्मुनिदर्शनम् ॥४०६॥ समरादित्यसंक्षेपः ततः कुलपति नत्वाऽऽपृच्छ्य सा तापसीजनम् । कुमारमागता सोऽपि सर्वं सम्पूज्य निर्ययौ ॥४०७।। दिनैः कतिपयैविश्वपुरं प्राप्तो न्यवेदयत् । राज्ञे शान्तिमतीलाभं सोऽथ वर्धापनं व्यधात् ॥४०८।। अथ संमान्य पल्लीशे विसृष्टेऽमरसेनभूः । शातिमत्या समं भोगान् बुभुजे भूभुजः प्रियः ॥४०९।। अन्यदा कर्मवैचित्र्यात् संसारासारतावशात् । सद्योघाती नृपस्याऽऽगाद्यमराज इवामयः ॥४१०॥ शूलं शिरोतिः सन्धीनां दन्तानां च प्रकम्पनम् । श्वासो लोचनभङ्गश्च स्वरभङ्गश्च जज्ञिरे ॥४११।। भिषजो भेषजे व्यर्थे विषेदुः खेदमाप च । शुद्धान्तस्तं च वृत्तान्तमाख्यत्सेनाय वेत्रभृत् ॥४१२।। सेनोऽथ नृपतेर्विश्वोपकर्तुस्तादृशीं दशाम् । श्रुत्वा स्वमक्षमं निन्दन्प्रतीकारे विमूर्छितः ॥४१३।। वीजित्वाऽऽश्वासितः शान्तिमत्याऽथोपायधीरया । उक्तः स्मरसि किं नाऽऽर्यपुत्र ! तं दैवतं मणिम् ॥४१४।। सोऽथ सुन्दर्यदः साधु स्मृतमुक्त्वेति तं मणिम् । आदाय शकुनैभव्यैः प्रेरितो नृपमासदत् ॥४१५॥ नृपमारोग्यरत्नेन चापमार्जयति स्म सः । अचिन्त्यरत्नमाहात्म्याच्छान्ते शूले शिरोव्यथे ॥४१६।। घटिताः सन्धयः सर्वे दन्ता निश्चलतामिताः । शान्तः श्वासो दृशौ स्मेरे किमेतच्चेति भाषितम् ॥४१७॥ १. शूल ख ङ शूलि ग घ च ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy