________________
सप्तमो भवः
२८९
२९०
प्रविष्टोऽल्पजनैर्युक्तस्तापसाः प्रणताश्च ते । अनुशिष्टोऽथ तैः पल्लीशन नीतो वनाऽन्तरे ॥३७१॥ दृष्टे देवकुले जीर्णे प्रोक्तं देव ! न वेदम्यहम् । विशेषात्कल्पवृक्षं तं सोऽस्मरच्च प्रियां तदा ॥३७२।। शान्तिमत्यपि संयुक्ता तापसीभिः समित्कुशम् । लात्वोपविष्टा छायायां प्रियमेलकशाखिनः ॥३७३।। दृष्टो नागलताऽऽश्लिष्टोऽशोकः प्रियतमः स्मृतः । चित्तमुत्कण्ठितं बाढं स्फुरितं वामलोचनम् ॥३७४।। ततो दृष्टस्तया सेनश्चित्तादिव विनिर्गतः । परिभ्रमंस्तमुद्देशमागतः सानुरागतः ॥३७५॥ हृष्टाऽऽर्यपुत्र इत्युक्त्वा दृष्ट एष चिरादिति । संदेहाच्च समुद्विग्ना सहीविरहजीवनात् ॥३७६।। सवितर्का क्व सोऽत्रेति स्वप्नः स्यादिति खेदिनी । सत्यं वीक्ष्य समाश्वस्ता स्नेहभारेण मूर्छिता ॥३७७|| विशेषकम् आश्वासिता ततस्तापसीभिर्यावन्न जल्पति । कमण्डलुजलेनाऽथ सा संसिक्ता न चेतति ॥३७८॥ ततश्च कन्दिते ताभिः कुमारः करुणापरः । मा भैष्टेति ब्रुवन्नागान्नापश्यद्रयकारणम् ॥३७९|| ताः पृष्टाश्च कुमारेण भगवत्यः कुतो भयम् । ताः प्रोचिरे भवात्सोऽथ प्राह तत्क्रन्दितं कुतः ॥३८०॥ ता: प्रोचुः शङ्खराजस्य सुता राजपुरेशितुः । असौ शान्तिमती नाम्ना दुर्दैवस्य नियोगतः ॥३८१।। वियुक्तभर्तृकता प्राणांस्त्यजन्तीमुनिना धृता । निवेदिता कुलपतरेनुशिष्टा च तेन सा ॥३८२।।
समरादित्यसंक्षेपः अत्रैव च समादिष्टः पत्या सह समागमः । स्थिता प्रमुदिताऽस्मासु मातृष्विव निजाङ्गजा ॥३८३॥ समित्कुशमुपादायाऽद्योपविष्टाऽत्र विष्टरे । अकस्मान्मूछिताऽस्माभिः कन्दितं तेन सुन्दर ।।३८४|| कलापकम् कुमारेण ततो हर्षखेदाऽवस्थावतेक्षिता । कमण्डलुजलैः सिक्ता वीजिता तापसीजनैः ॥३८५॥ आश्वस्ताऽजनि संभ्रान्ता कुमारेणाऽथ भाषिता । संभ्रमेण कृतं देवि ! नान्यथा हि मुनेगिरः ॥३८६।। तव भाग्यवशाज्जातं सत्यं कुलपतेर्वचः । इदं निवेद्यतां देवि ! यथा स्यात्तस्य निर्वृतिः ॥३८७।। तापस्यो दध्युरेतस्या वरोऽसौ वचसाऽमुना । लक्ष्यते सदृशं युग्ममिदं हि विधिना कृतम् ॥३८८|| शान्तिमत्यप्यथाऽवस्थान्तरं वाचामगोचरम् । नयन्त्यनुभवं रोमविकारेण सहोत्थिता ॥३८९।। दृष्ट्वा पल्लीपतिस्तुष्टो विस्मितश्च व्यचिन्तयत् । अहो देवप्रियारूपमिदं ससदृशं विधेः ॥३९०॥ ध्यात्वेति प्रणमत्येष देवभृत्यलवो ब्रुवन् । पल्लीपतिरनंसीत्तां भूतलन्यस्तमस्तकः ॥३९१॥ प्रसादं प्राप्नुहि स्वामितुल्यमित्यनयोदिते । कुमारः प्राह नैवाऽयं प्रसादविषयोऽस्ति मे ॥३९२॥ ततः सलज्जे पल्लीशे कुमारस्तरुमैक्षत । पल्लीपतिमपृच्छच्च किं नामाऽयं तरूत्तमः ॥३९३॥ स प्राहाऽदृष्टपूर्वोऽयं देव नाम न वेम्यतः । पृष्टोऽथ तापसीवर्गो जन्माऽपूर्वममुं जगौ ॥३९४।।