________________
सप्तमो भवः
२८७
२८८
तत्सख्यः प्रोचिरे पुत्रीश्वरस्कन्दस्य नः सखी । नीलुका कन्यसौ दत्ता तव त्वां वीक्ष्य मूर्छिता ॥३४८।। सोऽथ स्नेहरसेनेव कमण्डलुजलेन ताम् । असिक्त सा सचैतन्या दृक्कोणेन तमैक्षत ॥३४९।। तया हृतमनाः सोऽथ मा खिद्यस्वेति तां जगौ । आवजितं हि मे चित्तं तव स्नेहेन किं पुनः ॥३५०॥ एकतो गुरुगीर्भङ्गः स्नेहभङ्गस्तथैकतः । अखण्डा गुरुगीरिष्टं दातुं प्रभवति ध्रुवम् ॥३५१|| तत्त्वमाख्याहि किं कुर्वे साऽवदद् द्वितयं कुरु । स तत्समागमध्यानी जग्राहाऽनशनं मुनिः ॥३५२।। आपृच्छ्य पितरौ साऽपि क्षमयित्वा सखीजनम् । विदधेऽनशनं बद्धबुद्धिस्तत्रैव भर्तरि ॥३५३॥ वासन्तीव्रततिश्लिष्टाऽशोकदुमतलस्थयोः । तयोस्तत्राऽऽययौ नागदेवस्ताभ्यां नतश्च सः ॥३५४|| ऊचे सम्पद्यतामिष्टं स तत्र प्रेक्ष्य नीलुकाम् । लज्जितं प्रियमित्रं च दध्यौ किमिदमित्यलम् ॥३५५|| सख्याऽऽख्याते तयोर्वृत्ते प्रियमित्रमयं जगौ । एवंविधेऽत्र संजाते मा मुचस्तत्त्ववासनाम् ॥३५६॥ एवमुक्त्वा गते तस्मिस्तौ द्वावपि तथा स्थितौ । जनेशेन जनेनाऽपि पूज्यमानौ निरन्तरम् ॥३५७|| द्विमास्यन्ते यश:शेषावुत्पन्नौ किन्नरेषु तौ । अवधेतिवृत्तान्तावुद्यानमिदमागतौ ॥३५८॥ तत्राऽशोकद्रुमासन्नं कृत्वा देवकुलं वरम् । स्थापितो देव आनन्दो निर्वृतिश्चाऽपि देवता ॥३५९।।
समरादित्यसंक्षेपः गतौ च नन्दने विद्याधरीमेकामपश्यताम् । भ्रमन्ती दुःखसंतप्तामेनां हेतुमपृच्छताम् ॥३६०॥ सोचेऽहं खेचरी भर्तुरनुरागादखण्डयम् । विद्यादेव्युपचारं तत्तया शप्ताऽस्मि च कुधा ॥३६१॥ भविष्यति वियोगस्ते षण्मासी प्रेयसा सह । ततोऽहमरतिग्रस्ता भगवत्याऽनुकम्पिता ॥३६२।। समस्ति माधवीश्लिष्टः शुभ्रयामलपुष्पभृत् । प्रियमेलाऽभिधो वृक्षस्तत्रेति प्रियसंगमः ॥३६३।। ततोऽहमागतोद्देशं न पश्यामि द्रुमं तु तम् । भ्रमाम्यतस्ततः प्राह किन्नरोऽहं विलोकये ॥३६४॥ तस्मिन्विलोकिते लब्धे विद्याधर्या निवेदिते । सा तस्याऽधः स्थिता शीघ्रं घटिता स्वप्रियेव च ॥३६५॥ तयाऽऽख्यातेऽभवद्विद्याधरकिन्नरयोमिथः । प्रीतिः स्थित्वा कियत्कालं तत्खेटमिथुनं गतम् ॥३६६।। किन्नरस्तु प्रियतमागिरा हूँ प्रियमेलकम् । निजदेवकुलासन्नं न्यास्थत्तत्र तथाऽस्ति सः ॥३६७|| तस्य द्रुमस्य नाम्नाऽभूत्तत्तीर्थं प्रियमेलकम् । तत्तत्रैव कुमारस्य प्रिया मन्ये मिलिष्यति ॥३६८।। हृष्टो राजा कुमारश्च राज्ञा पृष्टश्च पल्लिपः । प्रोचे वेम्यहमुद्देशं तं तपोवनसन्निधौ ॥३६९।। ससेनः प्रेषितः सेनस्ततस्तत्र महीभुप्ता । दिनैः कतिपयैः प्रापत्तं तापसजनाऽऽश्रमम् ॥३७०॥
१. वस्ता ख ग घ च । २. घृष्टश्च क, दिष्टच ग घ ।