________________
सप्तमो भवः
२८५
२८६
समरादित्यसंक्षेपः
चम्पाऽऽवासनिवेशेऽसौ जायमात्रपरिच्छदः । तदा राजपुराऽऽयातानुस्मृतेश्चोपलक्षितः ॥३२४॥ इत्यादि प्रार्थनाप्रान्तऽमाख्यायाऽथ न्यवेदयत् । तदद्याकर्णितं देव शबरेभ्यो मयेदृशम् ॥३२५।। नीतौ कुमारपल्लीशौ धाट्या देवनिदिष्टया । निवेदितुं व्यतिकरमिदं देवमुपागमम् ॥३२६॥ कलापकम् राज्ञोचे रुचिरं चक्रे त्वादृशां युज्यते ह्यदः । अथाऽऽदिशन्नृपो भृत्यान् यत्नः कर्तव्य एतयोः ॥३२७।। अथ कक्षाऽऽन्तरे शय्या प्रवरा रचिता तयोः । ततो वैद्यान्समाह्वाय्य प्रस्तुतं व्रणकर्म च ॥३२८॥ प्रेषिताश्च नरा दिक्षु राजपुत्रीं गवेषितुम् । दिनैः कतिपयैः सानुदेवश्चाहूय भाषितः ॥३२९।। विषमाध्वनि सार्थस्ते प्रत्यासन्नो घनागमः । स्थाने च राजपुत्रोऽस्ति तद् गच्छ त्वं नृपोदिते ॥३३०।। स प्राह वहतो नैव चरणे चरणे मम । कुमारः प्राह देवस्याऽऽदेशं कुर्वथ सोऽगमत् ॥३३१।। सपल्लीशे कुमारेऽथ स्नाते वर्धापनं व्यधात् । नृपोऽवोचच्च ते वत्स ! किं करोमि प्रियं पुनः ॥३३२॥ पुरुषाः प्रेषिताः सन्ति वधूं तव गवेषितुम् । तेषु केऽपि समायाता नायान्त्यद्यापि केचन ॥३३३|| तदा च सोमसूराख्यः प्रोचे देव स्मृतं मया । कुमारस्य प्रियतमासमायोगस्य कारणम् ॥३३४|| राज्ञा कीदृगिति प्रोक्ते स प्राह श्रूयतां प्रभो ! । अस्ति कादम्बरीकक्षान्तस्तीर्थं प्रियमेलकम् ॥३३५।।
वदन्ति च तदैतिहमटव्यन्तः पुराऽभवत् । विशाखवर्धनाऽऽभिख्ये पुरेऽजितबलो नृपः ॥३३६॥ श्रेष्ठी वसुंधरस्तत्र प्रियमित्रोऽस्य नन्दनः । लब्धा तेनेश्वरस्कन्दनन्दना नीलुकाभिधा ॥३३७|| तयोरव्यूढयोरेव वसुंधरगृहाद्वसु । गतं कर्मानुभावेन सोऽथ निर्वेदतो मृतः ॥३३८।। प्रियमित्रोऽपि दारिद्मात्पराभूतः पुरीजनैः । विनिर्गत्योत्तरां गच्छंस्तातमित्रेण वीक्षितः ॥३३९।। नागदेवाऽभिधो वीक्ष्य स तं पाण्डुरभिक्षुकः । समुपालक्षयद्दौःस्थ्यावसथं च कथञ्चन ॥३४०|| ऊचे वत्स ! तवाऽवस्था किमीहक प्रस्थितः क्व च । स प्राह पृच्छ तं दैवं येनैवं विहितोऽस्म्यहम् ॥३४१॥ तपस्व्यूचे पितुस्तेऽस्ति क्षेमः स प्राह मत्पितुः । क्षेमः स्वःस्थस्य न तु मे लोकद्वयबहिर्जुषः ॥३४२।। मुनिः प्राह गतः सोऽस्तं बन्धुकैरवचन्द्रमाः । ही कर्मेति भवं हित्वा मुनयो हि ययुः शिवम् ॥३४३॥ अन्यच्च त्वं कथं वत्स ! लोकद्वितयवर्जितः । योग्योऽसि परलोकस्य साधने तं च साधय ॥३४४|| सोऽथाऽख्याय विधि तेन दीक्षितः कुरुते व्रतम् । नीलुकापि हि तच्छ्रुत्वा गृहेऽपि व्रतवत्यभूत् ॥३४५।। गते काले स चायातस्तत्पुराऽन्ततपोवने । श्रुतो नीलुकया याता तं नन्तुं पित्रनुज्ञया ॥३४६।। ध्यानस्थं वीक्ष्य तं साऽथ संभ्रमान्मूर्छिताऽपतत् । जाते परिजनाऽऽकन्दे किमिदं पृच्छति स्म सः ॥३४७||