________________
२८३
२८४
सप्तमो भवः नता कुलपति तेनाऽऽशीर्वादेनाऽभिनन्दिता । उक्ता पुत्रि ! तवाऽत्रैव भावी प्रियसमागमः ॥३०१॥ प्रतिश्रुतं तया तस्य वाक्यं ज्ञानवतो मुनेः । तेनापि तापसीनां सा धात्रीणामिव बालिका ॥३०२।। इतश्च तेषां सर्वेषां पश्यतां दिवसो गतः । सर्वेऽपि मिलिता रात्रौ विषण्णां सार्थमाययुः ॥३०३।। पल्लीशप्रतिबोधेन सेनश्चकेऽथ भोजनम् । शयितः शयनीयेऽसौ नातिदूरेऽस्य पल्लिपः ॥३०४।। अथ स्थानाऽन्तराऽऽयातशबरैः शबरेश्वरः । ऊचे विश्वपुराऽधीशधाट्यभ्येति तवोपरि ॥३०५।। आत्तधन्वा व्रजन्सोऽथ सानुदेवमवोचत । कुमाराऽङ्गेऽप्रमत्तेन त्वया भाव्यं पुनः पुनः ॥३०६।। उक्त्वेति रिपुसेनायाः पल्लीशः सम्मुखोऽगमत् । मत्वेति तत्प्रतिग्राहे कुमारोऽप्यनुजग्मिवान् ॥३०७।। मिलितश्च कुमारोऽस्य तयोर्धाट्या समं रणे । भग्ना धाटी समुत्तस्थुरथ ठकुरदिक्कराः ॥३०८॥ तैश्च वाजिव्रजेनैते शबराः शवराजिवत् । परितो वेष्टिता नष्टचेष्टिता एव तस्थिरे ॥३०९।। एकोऽप्यनेकवत्तैस्तु सेन: पल्लीशसंयुतः । ददृशे दृग्दुरालोको जलबिम्बितसूर्यवत् ॥३१०|| तौ धृतौ पातयित्वाऽथ कुमारसमराऽद्भुतात् । विस्मितास्ते क एष स्यादिति दध्युश्च ठक्कुराः ॥३११।। नीत्वा विश्वपुरे तैश्च नेत्रे समरकेतवे । कुमारवृत्तसंयुक्तं विज्ञप्तं सर्वमेव तत् ॥३१२।।
समरादित्यसंक्षेपः ततो विक्रमवाल्लभ्याद भूपेन स निरीक्षितः । आकृत्या विस्मितेनैष निश्चिक्ये च नृपाङ्गजः ॥३१३।। पल्लीशस्य वधे राज्ञा कुमारस्य च पालने । दिष्टे कुमारः प्रोवाच पूर्व मामेव घातय ॥३१४|| विस्मितस्तगिरा प्राह महीशः को भवानिति । कुमारोऽथाऽऽत्मनः पार्वे निरूपयति यावता ॥३१५|| तावता ज्ञातवृत्तान्तो जनैः कतिपयैर्युतः । सप्राभृतो नृपं द्रष्टुं साऽनुदेवः समाययौ ॥३१६।। द्वा:स्थेन कथितो राज्ञानुमतः प्राविशच्च सः । अपश्यन्नृपति तस्मै ढौकयामास ढौकनम् ॥३१७।। आसने दापिते राज्ञोपविशेति स भाषितः । सेनं वीक्ष्य प्रहारार्तं मूर्छितो न्यपतद्भुवि ॥३१८।। राज्ञाऽथ सेचितो वारा वीजितश्चाञ्चलैश्चलैः । समेतचेतनः प्रोचे किमेतदिति भूभुजा ॥३१९|| सानुदेवस्ततः प्राह सत्यं मुनिवचः खलु । असारोऽयं भवश्चापद्भाजनं चाऽत्र देहिनः ॥३२०॥ चम्पाधिपसुतस्याऽपि कुमारस्य यदीदृशी । अवस्था सेननाम्नोऽस्य गुणरत्नमहाम्बुधेः ॥३२१॥ नान्यथा मद्विकल्पोऽभूद् ध्यात्वेति नृपतिर्जगौ । अयं कथमरण्येऽत्र गात्रमात्रकतन्त्रवान् ॥३२२।। सार्थेश: प्राह नैवाऽहमपि वेद्मि किमप्यदः । मयाऽपि दृष्टः स्वपुरात्तामलिप्ती यियासता ॥३२३।।
१. मात्रमात्रैक
ख ।