________________
सप्तमो भवः
पल्लीशो युध्यमानोऽथ सेनघातेन मूर्च्छितः । वीजितस्तेन सिक्तश्च दध्यौ संजातचेतनः ॥ २७७॥ अयं सत्पुरुषः कोऽपि विक्रमी केशरी यथा । मुनिस्तु कृपया शत्रुवर्गेऽप्यकृतशात्रवः ॥ २७८ ॥ तद्देवोऽयमिति ध्यायन्नूचे स नृपसूनुना । विश्वस्तो भव स प्राह कीदृग् विश्वस्तताऽऽर्य नः ॥ २७९ ॥ श्रुत्वा च पातितं पल्लीपति भिल्ला दधाविरे ।
निषिद्धास्तेन ते संज्ञां कृत्वा गोमायुवाशितम् ॥२८०||
ततः पल्लीपतिर्नत्वा प्राह मन्तुं क्षमस्व मे । यत्सार्थो लूषितः सेनस्ततो दध्यौ च किं न्विदम् ॥ २८२॥ अथाऽऽघोषणा युद्धं निषिध्य शबरेश्वरः । ऊचे येन गृहीतं यत्तदानयतु वस्तु सः ॥ २८२ ॥
आनीते वस्तुनि प्राह सेनं सर्वं तवाऽभवत् । स प्राह नाहमेतस्य स्वामी तत्पृच्छ सार्थपम् ॥ २८३॥
अन्विष्य स समानीत: पल्लीशेनेति भाषितः । अयं नः स्वगुणैः स्वामी संबन्धी त्वं च सार्थप ॥ २८४ ॥
तदाख्याह्यत्र किं नास्ति वस्तु तावकवस्तुनि ।
स निरूप्याऽऽह सर्वं मे पूर्यते वां प्रसादतः ॥ २८५॥
सन्तं कुमारस्तं मत्वा घातभञ्जनपूर्वकम् । कटिसूत्रं ददौ तस्मै प्रसाद इति सोऽग्रहीत् ॥ २८६॥ ततः पतितयोधानां स विधाय व्रणक्रियाम् । यावत्पल्लीशनिबन्धात्पल्लीं याति ससार्थपः ॥ २८७॥ तावदागत्य सार्थेशसूदः प्राह गतं हा । सर्वसारं यतो नैव दृश्यते नृपतेः सुता ॥ २८८॥
२८१
२८२
समरादित्यसंक्षेपः
विषण्णे सानुदेवेऽथ पल्लीशः प्राह का नु सा । सार्थेशः प्राह पन्यस्य पुत्री शङ्खनरेशितुः ॥ २८९ ॥ सूद: पल्लीशपृष्टोऽथ प्राह जातेऽसमञ्जसे । आर्यपुत्राऽऽर्यपुत्रेति जल्पन्त्यभिगताऽटवीम् ||२९०॥ सार्थेशाऽऽदेशतोऽहं तामनुयाइँकुटाहतः । मूर्छान्ते यावता वीक्षे तावताऽस्ति न सा क्वचित् ॥ २९१॥
ततो हा देवि ! हा देवि ! जल्पन्सेनो विमूर्च्छितः । आश्वास्य भाषितः पल्लीशेन देव विषीद मा ॥ २९२ ॥ सम्प्रत्येव निजैर्देवीमानाय्य तव मेलये । उक्त्वेति शबरान् प्रैषीद्वीक्षितुं परितो वनम् ॥ २९३॥ पल्लीशोऽथाऽवदत्सेनं देवालम्बस्व धीरताम् । यथा गवेष्यते देवी प्रवृत्तौ तौ गवेषितुम् ॥२९४॥
इतश्च चक्रवाकीव प्रियमन्वेषयन्त्यसौ । राजपुत्री वनेऽपप्तन्न तु कान्तमलोकत ॥ २९५ ॥ निर्विण्णा वासरान्ते सा पाशमासूत्र्य पादपे । न्यस्तग्रीवा मुमोच स्वं त्रुटिते पाशकेऽपतत् ॥ २९६ ॥
तां मूर्छितामदर्शच्च कश्चिन्मुनिकुमारकः । कृपया तदुपान्तं स गतोऽपश्यच्च पाशकम् ॥२९७।। कमण्डलुजलेनाऽथ सिक्ता जज्ञे सचेतना । उक्ता च वत्से मा भैषीरहं मुनिकुमारकः || २९८ ।।
नतस्तया शशासैष पुत्र्यविधवा भव ।
ऊचे च त्वं किमस्येका कस्माच्चैतत्त्वया कृतम् ॥ २९९ ॥
मुनेः पितुरिवाऽग्रे साऽऽचख्यौ वृत्तान्तमादितः ।
रुदती बोधिता तेन नीता च निजमाश्रमम् ॥३००||