SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सप्तमो भवः कियत्यामपि वेलायां सुप्तं परिजनेऽखिले । तमिस्रायां समुत्थाप्य सेनः शान्तिमतीं जगौ ॥ २५३॥ युग्मम् देशान्तराणि दीर्घाणि विचित्रा कर्मणां गतिः । क्लेशस्याऽनुचिताऽसि त्वं तन्न वेदम्युचितं किमु ॥२५४॥ सोचे कोऽपि मम क्लेशो नाऽऽर्यपुत्र ! त्वया सह । ततस्तयाऽन्वितः खड्गसख उद्यानतो ययौ ॥२५५॥ चम्पावासाभिधे संनिवेशेऽतीता निशाऽस्य च । उद्गतेऽर्के परिश्रान्तप्रियोऽस्थाच्च वनान्तरे ॥ २५६॥ तत्र राजपुरात्तामलिप्तीं प्रति यियासता । वीक्षितः सानुदेवाऽऽख्यसार्थेशेनोपलक्षितः ॥ २५७॥ स सेनमप्यसेनं तं वीक्ष्य शान्तिमतीयुतम् । कृत्वा विकल्पानस्वल्पान्नत्वा प्रोचे कृताञ्जलिः ॥ २५८॥ तामलिप्तीमहं देव गन्ता राजपुराश्रयः । सार्थवाहसुतः सानुदेवाख्यः सार्थसंयुतः ॥ २५९ ॥ अत्रोषितश्च मे सार्थोऽहं त्वाचमनहेतवे । सरः समागमं दृष्टः कुञ्जश्चैष विदूरतः ॥ २६०॥ अमुं वीक्ष्य प्रमोदो मेऽभूत्कल्याणनिवेदकः । देवस्य स्वामिपुत्र्याश्च दर्शनं तदभूदिदम् ॥ २६१ || विषण्णास्तु निरीक्ष्य त्वामियन्मात्रपरिच्छदम् । तन्ममाऽऽख्यातु देवश्चेदकथ्यं न भवत्यदः || २६२ ॥ तुष्टस्तद्वचसा सेनः प्रोवाचाऽस्त्यत्र कारणम् । तामलिप्त तु याताऽस्मि तवाऽऽख्याताऽस्मि तत्पुनः || २६३|| स प्रसाद इतीरित्वा प्राह सार्थमलङ्कुरु । अहं देवस्य देव्याश्च पादानामस्मि किङ्करः ॥ २६४ ॥ २७९ २८० समरादित्यसंक्षेपः कुमारः प्राह तातस्याऽन्वेषकेषु नरेष्वहम् । इहाऽगत्य निवृत्तेष्वग्रतो गन्तुं समुत्सहे ॥ २६५ ॥ सनिर्बन्धमथ प्राह सानुदेवः कुमार तत् । स्थास्याम्यहमपि प्रोचे सेनस्तर्हि भवत्वदः ॥ २६६ ॥ तद् गच्छ त्वं निजं सार्थमिदं वाच्यं न कस्यचित् । नाऽऽगम्यमत्र चेत्युक्त्वा प्रेषितः सार्थमैच्च सः ॥ २६७॥ कियत्यामपि वेलायामश्ववाराः समाययुः । तैः पृष्टाः सार्थिका दृष्टौ दम्पती क्वचनेदृशौ ॥ २६८|| न दृष्टाविति तैः प्रोक्ते मिथस्तुरगिणो जगुः । अदिगेषा ततो राजपुरवर्त्मनि गम्यते ॥ २६९ ॥ निवृत्तेष्वश्ववारेषु सप्रत्ययनरादसौ । भोज्यमानाय्य ताविभ्यः प्राणवृत्ति व्यधापयत् ॥२७०॥ वृत्तेऽह्नि सादिवृत्तान्तं कथित्वा सार्थमानयत् । समर्प्य वाहनं रम्यं तयोश्चके प्रयाणकम् ॥ २७१ ॥ उत्प्रयाणे च सर्वत्र सेनः शान्तिमती च तौ । तस्थतुः सुस्थितौ चेलगृहे गर्भगृहेश्वरी || २७२ || सार्थोऽन्यदा समागच्छदटवीं दन्तरक्तिकां । तत्राऽप्रतर्कितो भिल्लाभ्यवस्कन्दः पपात च ॥ २७३॥ ततः सार्थभटैः सार्धं तस्य प्रववृते रणः । प्रियां संस्थाप्य सेनोऽप्याकृष्टखड्गोऽभ्यधावत ॥ २७४॥ मृगा इव मृगारातेर्भिल्लास्त्रेसुः कुमारतः । दिश्यन्यस्यां तु सार्थस्य सारं लुप्तं किरातकैः ॥ २७५॥ भटाः पेतुः स्त्रियो नैशुस्तस्यां दिश्यथ धाविते । सेने श्येन इव कुद्धे नेशुः शबरपक्षिणः ॥ २७६ ॥ १. नेशुः क ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy