________________
अष्टमो भवः
तावत्तत्र समुद्देशे पथभ्रष्टः परिभ्रमन् । क्षुधा तृषा परिक्षीणः साधुगच्छः समागमत् ॥ २५९ ॥ सानुकम्पं त्वया पृष्टाः साधवः किं वनान्तरे । परिभ्रमत ते प्रोचुर्महात्मन् ! मार्गतश्च्युताः || २६०॥
श्रीमत्या भणितश्चाऽसि स्वामिन्नेतान्महामुनीन् । उत्तारय वनाद्भीमात्प्रीणीष्व च फलादिना ॥ २६१ || इदं धर्मनिदानं हि प्रदत्तं वेधसा तव । ततस्त्वं जातरोमाञ्चः फलमूलाद्यढौकयः ॥२६२॥ प्रोचे च साधुभिः श्राद्ध कल्पन्तेऽमूनि नैव नः । सिद्धान्ते यन्निषिद्धानि सर्वज्ञैः सर्वदर्शिभिः || २६३||
त्वयोचेऽनुग्रहः कार्यो निर्वेदः स्यान्ममाऽन्यथा । श्रद्धालुत्वमथ ज्ञात्वा साधवस्त्वां बभाषिरे ॥ २६४॥
यद्येवं तर्हि जीर्णानि फलमूलानि देहि नः । शीघ्रं न गह्वरात्तान्यानीय तान् प्रत्यलाभयः ॥ २६५ ॥ कृतार्थं मन्यमानः स्वं सपत्नीकोऽपि तान्पथि । मुनीनस्थापयस्ते तु तवाऽऽख्यन्धर्ममार्हतम् ॥ २६६॥ त्वया ते स्थापिता मार्गे धर्ममार्गे च तैर्भवान् । महतामुपकारो हि सद्यः फलति निर्मितः ॥ २६७॥
सजायोऽपि नमस्कारं पाठितः साधुभिर्भवान् । समादिष्टश्च कर्तव्यमस्मदीयमिदं वचः ॥ २६८ ॥ पक्षस्यैकदिने हित्वाऽऽरम्भं स्थित्वा च निर्जने । स्मर्तव्योऽयं नमस्कारः सारः श्रीमज्जिनागमे ॥ २६९ ॥ दिने तत्र च कश्चिद्वां देहद्रोहं विचिन्तयेत् । कुर्याद्वा तदपि क्षम्यमित्थं स्वर्गो भविष्यति ॥ २७० ॥
३३१
३३२
समरादित्यसंक्षेपः
इति तैर्ज्ञानिभिः प्रोक्तं युवाभ्यामुररीकृतम् । भावनापावनात्मभ्यां तदाचीर्णं च सर्वदा ॥ २७१ ॥ अन्यदा युवयोरित्थमात्तपौषधपोषयोः । आगात्सिंहः प्रियां त्रातुं भवांश्चापं करेऽकरोत् ॥ २७२॥ ऊचे च भीरु मा भैषीः शरेणैकेन हन्म्यमुम् ।
सा प्राह नात्र सन्देहः किं तु गौर्बाध्यते गुरोः || २७३॥ त्वयोचे भवतीस्नेहमोहाद्दध्रे धनुर्मया । ततोऽलममुना यत्नं कुरुष्व गुरुभाषिते ||२७४ || पतितो वां स पञ्चास्यो विलिखन्नखरैः खरैः । त्वया सहोढया सोढः क्लीवजीवसुदुःसहः || २७५ ।। नयताऽप्यन्यतो धातृनुपसर्गेण तेन वाम् । गुरुगीरक्षधात्वर्थो निन्ये न त्वन्यतो बलात् ॥ २७६ ॥ मुनी इव क्षमोपेतौ परे तौ दम्पती युवाम् । त्रिदशत्वेन सौधर्मे जातौ पल्योपमायुषौ ॥ २७७॥
इतोऽवरविदेहेऽस्ति गुरुचक्रपुरं खवत् ।
राज्ञा कुरुमृगाङ्केन मृगाङ्केनेव राजितम् ॥२७८॥ तस्याऽग्रमहिषी बालचन्द्राख्या त्वं दिवश्च्युतः । तदीयकुक्षौ समरमृगाङ्काऽऽख्यः सुतोऽभवः ॥ २७९ ॥ श्रीमती तु नृपश्यालसुभूषणनृपस्त्रियाम् । कुरुमत्यामभूत्पुत्र्यशोकदेवीति नामतः ॥ २८० ॥ उभावपि कलाचार्यात्प्रापथुः सकलाः कलाः । भवनं पञ्चबाणस्य यौवनं च क्रमाद्युवाम् ॥२८१ ॥
१. ततो for इतो ख ङ च ।