________________
अष्टमो भवः
दत्ता चाशोकदेवी ते सुभूषणमहीभुजा । दिने प्रशस्ते युवयोर्जज्ञे परिणयोत्सवः ॥ २८२॥
काले सुखमये याति पिता ते पलितेक्षणात् । राज्यं तव वितीर्याऽथ प्रवव्राज प्रियायुतः ॥ २८३||
तेवाऽथ कुर्वतो राज्यं भिल्लत्वभवसम्भवम् । विपाकमागतं कर्म जन्तुजातविघातजम् ॥२८४॥
ततश्च विजयेऽत्रैव भम्भानगरभूभुजा । श्रीबलेन समं जज्ञेऽनिमित्तो विग्रहस्तव ॥ २८५ ॥
सर्वे विघटिता योद्धास्तव श्रीबलमाश्रिताः । युद्धे त्वं निहतस्तेन पञ्चम्यां नारकोऽभवः ॥ २८६ ॥ श्रुत्वा तव मृर्ति कृत्वा निदानं त्वद्भवाऽनुगम् । पञ्चम्यां नारको जज्ञे सशोकाशोकदेव्यपि ॥२८७॥ तत्र सप्तदशाम्भोधीनायुवां दुःखतो गतम् । अथोद्धृत्य युवां जातौ पुष्करार्धस्य भारते ॥२८८॥ दरिद्रकुलयोः पुत्रपुत्रीरूपतया क्रमात् । युवत्वे युवयोर्जज्ञे विवाहः स्नेहशालिनोः ॥ २८९ ॥
अन्यदा स्वगृहा स्थाभ्यां युवाभ्यां यतिनीयुगम् । वीक्षितं प्रतिलाभ्यैतत्पृष्टं कुत्र व आश्रयः ॥ २९०॥ वसुश्रेष्ठिगृहासन्ने तदाख्याते प्रतिश्रये । गृहीतफुल्लावुत्फुल्लनयनौ च गतौ युवाम् ॥ २९९॥
दृष्टा च गणिनी तत्र सुव्रता सुव्रताऽभिधा । जन्तूनां यद्वचः क्षीरात्तुष्टिः पुष्टिश्च जायते ॥ २९२ ॥
१. तव प्रकुर्वतो क ।
३३३
३३४
समरादित्यसंक्षेपः
यस्या एकादशाङ्गानि महार्थभरभाञ्ज्यपि । अद्भुतं रसनाग्रेऽस्थुः कमलोदरसोदरे ||२९३ || ताभ्यां सपुलकाभ्यां सा वन्दिता व्यतरत्तयोः । धर्मलाभाशिषं तौ चाऽवोचत्पेशलया गिरा ॥ २९४|| भद्रौ जिनाग्रतः पुष्पवृष्टिरत्र विमुच्यताम् । विमुच्येथां यथा कारागारात्संसारवासतः ॥ २९५ ॥
तथा कृत्वा युवामेत्याऽभिवन्द्य गणिनीं पुनः । निविष्टौ कथितौ साध्व्या गोचराग्रप्रविष्टया ॥ २९६ ॥
धर्मश्रद्धालुकावेतौ परिपृच्छ्य प्रतिश्रयम् । पार्श्वेऽस्माकं जिनेन्द्राणां वन्दनार्थमथागतौ ॥ २९७॥
गणिन्यूचे कृतं चारु धर्मिकौ यदिहागतौ । जन्तूनां दुःखतप्तानां शरणं धर्म एव हि ॥ २९८ ॥
स च सत्यो मनुष्यत्वे तच्च स्वप्नवदस्थिरम् । तत्रापि विषयी ज्ञेयश्चन्दनाङ्गारकारकः ||२९९ ॥ धर्माद्धि सर्वसौख्यानि सशाश्वतपदान्यपि । स चार्हद्भिः स्मृतैर्दृष्टैरचितैर्वन्दितैर्नुतैः ॥ ३००॥ तयाऽऽख्यातं युवां धर्मं प्रपेदाथे जिनोदितम् । मधुमांसनिवृत्तिश्च विहिता स्वहितावहा ||३०१ || प्रस्थितौ दम्पती गेहं गणिन्या भणितौ युवाम् । अत्राऽऽगत्य सदा धर्मः श्राव्यो दुःखनिषूदनः || ३०२ ||
प्रतिपद्येति कुर्वन्तौ युवामभवतां क्रमात् । सुश्राद्धौ ब्रह्मलोके च जातावायुः क्षये सुरौ ||३०३॥
१. श्रव्यो in all Mss. ।