________________
३२९
३३०
अष्टमो भवः जगद्वैद्य ! कृपां कृत्वा कर्माऽजीर्णं क्षिणु क्षणात् । पथ्यां निजगिरं दत्त्वा तपस्तप्ताऽम्भसा समम् ॥२३६।। भ्राम्यन्भवेष्टिकापाके दष्टो मोहमहाग्निना । मूर्छितोऽहमुपेक्ष्यो न जगज्जाङ्गलिक त्वया ॥२३७।। कषायैः करपादाद्यैश्छिन्नैरपि हि रोहति । मत्कर्मरिपुमानस्योत्तमाङ्ग छिन्द्धि तन्मनः ॥२३८॥ मन्मनो विध्यते भ्राम्यद् बहिविषयकण्टकैः । तद्देहि चरणत्राणं जिनेश ! निजदर्शनम् ॥२३९।। इति स्तुत्वा जगन्नाथं नत्वा गणधराधिकान् । साधूनिन्द्रादिकान्देवान्यथोचितमुपाविशम् ॥२४०।। ततो विभुर्भवाम्भोधिनिस्तारणतरीनिभाम् । शुद्धकाष्ठाश्रयां कर्तुमारेभे धर्मदेशनाम् ।।२४१|| अनाद्यनन्तो जीवोऽयं कर्मणाऽनादिना युतः । पापेन जायते दु:खी धर्मेण सुखितः पुनः ॥२४२।। धर्मश्चरित्रधर्मोऽयं श्रुतधर्माद्विजायते । स कषच्छदतापैश्च शुद्धो ज्ञेयः सुवर्णवत् ॥२४३|| सर्वप्राणातिपातादिपापस्थाननिषेधनम् । सध्यानाऽध्ययनादीनां विधिर्धर्मकषो मतः ॥२४४|| बाह्यक्रियाकलापेन येनाऽयं नैव बाध्यते । शुद्धश्च जायते छेदः स धर्मकनके मतः ॥२४५।। जीवादिभाववादो यो बन्धमोक्षप्रसाधकः । स धर्मजातरूपेऽत्र ज्ञेयस्तापो मनीषिभिः ॥२४६।। त्रिभिरेभिर्विशुद्धो यः स धर्मो धर्म उच्यते । अविशुद्धस्त्रिभिर्यः स फलकालेऽन्यथा भवेत् ॥२४७।।
समरादित्यसंक्षेपः समग्रपुरुषार्थेषु धर्मो हि प्रथमो मतः । यस्तत्र वञ्चितः सर्वकल्याणेषु स वञ्चितः ॥२४८|| कल्याणकामिना तस्मात्सर्वकल्याणकारणम् । कल्याणवत्परीक्ष्येष ग्राह्यः कल्याणभाषितः ॥२४९।। रत्नत्रयमयं तस्मादादायाऽमुं मयोदितम् । सफलं मानुषं जन्म विधत्ताऽत्यन्तदुर्लभम् ॥२५०।। श्रुत्वेति केऽपि संविग्नाः श्रमणत्वं प्रपेदिरे । केऽपि श्रावकतां केऽपि सम्यग्दर्शनमेव तु ॥२५१॥ तदा च समवसृतौ वीक्ष्य देवी व्यचिन्तयम् । क्वैषाऽत्र मन्त्रसिद्धस्य ततश्च वचनं स्मृतम् ॥२५२।। पृच्छामि च जिनं चक्रे किमयं प्राग्भवे मया । देवीविरहजं दु:खं यतो जातं सुदारुणम् ॥२५३।। ततो नत्वा मया पृष्टो मम प्राक्कर्मदूषणम् । सर्वं सर्वविदां मुख्यः समाख्यातुं प्रचक्रमे ॥२५४|| विन्ध्याऽद्रौ शिखरे सेनो नाम्ना शबरनायकः । त्वमभूः प्रेयसी चेयं श्रीमती नामतस्तव ॥२५५।। अत्रस्नुर्विषये गृध्नुः क्षिप्नुः श्वापदसन्ततेः । धृष्णुजिष्णुः स्वभावेन समभूः शमभूर्न तु ॥२५६।। तेव वल्कदुकूलाऽऽढ्या गुञ्जाफलविभूषणा । भ्रान्ता कान्ताऽपि कान्तारे परिश्रान्ता त्वया सह ॥२५७|| अन्यदा च निदाघार्तावनार्तस्त्वं तया समम् । विषयानुपभुञ्जानो यावदास्से वनान्तरे ॥२५८॥
१. तावत् for तव
ख
ग घ ।