________________
अष्टमो भवः
श्लोकमेतं लिखित्वाऽधो यावदस्ति विलोकयन् । तावत्तत्र समायातौ तौ चित्रमतिभूषणौ ॥ १०० ॥ युग्मम् तौ चित्रपट्टिकां प्रेक्ष्य प्रोचतुर्देव किं न्विदम् । स्मित्वा स प्राह भवतोविज्ञानस्य द्विरुक्तता ॥ १०१ ॥
महाप्रसाद इत्युक्त्वा यावदेतावपश्यताम् । रूपं द्विधाऽपि श्लोकं तावत्ताभ्यां निरीक्षितम् ॥१०२॥
दध्यतुश्च ध्रुवं धन्या सा कन्या बहुमन्यते । कुमारेणाऽपि या चित्रं किं वा योग्या हि सेदृशः ॥ १०३ ॥
देव्या निवेद्यते ह्येतद् ध्यात्वा चित्रमतिर्जगौ । देव रूपमदृष्टं यदित्थमाराध्यतेऽद्भुतम् ॥१०४॥
भूषण: प्रोचिवानीदृश्येवं सा राजकन्यका । धन्याऽवश्यं यदेवं सा देवेन बहुमन्यते ॥ १०५ ॥ तदा द्वाःस्थः समेत्याह कुमारोऽस्ति समागतः । देव गान्धर्विकः सैष कुमारं द्रष्टुमिच्छति ॥ १०६ ॥ आयात्विति कुमारोक्ते विश्वभूतिः समागमत् । अवोचच्च कुमार ! त्वां देव आज्ञापयत्यदः ॥ १०७॥ प्रस्तुते गीतविचारेऽस्त्यस्माकं विभ्रमः स्वरे । कुमारस्तं समागत्य ततोऽपनयतु द्रुतम् ॥१०८॥ स्मित्वा स प्राह देवस्य स्वापत्ये बहुमानिता । गान्धर्वः प्राह नाऽपत्ये बहुमानो गुणेषु तु ॥ १०९ ॥ अवक्तामेवमेतद्धि तौ चित्रमतिभूषणौ ।
गुणानां हि समग्राणां कुमारे निकषः स्थितः ॥११०॥
१. भवतो ख ग घ ङ च दिरुक्ततः ख ।
३१७
३१८
समरादित्यसंक्षेपः
तातादेश इति प्रोच्य कुमारः सौधमासदत् । द्विधा चित्रयुतौ चित्रकृतौ तु स्वगृहं गतौ ॥ १११ ॥ भूषणः प्राह सम्पन्नमात्मीयं हि समीहितम् । तदस्य रूपमालिख्याऽनाख्याय लघु गम्यते ॥ ११२ ॥ आख्याते हि कुमारोऽयं न प्रेषयति नौ लघु । भवत्वेवं परेणोक्ते तौ तमालिखतां ततः ॥११३॥
तद्रूपं खेचरद्वन्द्वरत्नवत्योश्च पट्टिके । कुमारलिखिते लात्वा तौ शङ्खपुरमीयतुः ॥ ११४ ॥ देव्या वृत्तान्तमाख्याय तच्चित्रत्रयमर्पितम् । तयोः कान्तिमती द्वेधा तुष्टाऽदात्पारितोषिकम् ॥११५॥ निरूपयन्ती सा रूपं कुमारस्याऽतिमन्मथम् । दध्यौ विशेषसंस्थानमहो रूपमहोऽप्यहो ॥ ११६ ॥ अतृप्ताऽपि तदालोके वीक्ष्यान्ये चित्रपट्टिके । रूपाऽनुरूपविज्ञानप्रकर्षात् साऽतिविस्मिता ॥११७॥ वाचयित्वा सुतामूर्तेरधः श्लोकमचिन्तयत् । धन्या ममाऽऽत्मजा येत्थं कुमारेणाऽभिलष्यते ॥११८॥ अर्पयित्वा कुमारस्य प्रतिरूपं सुतां प्रति । देव्या मदनमवाख्याऽनुशिष्य प्रेषिता सखी ॥ ११९ ॥ सा गत्वा चार्पयद्रत्नवत्यै तां चित्रपट्टिकाम् । देव्यादेशं समाख्यच्च शिक्षस्वेदं यथा लघु ॥ १२० ॥ रत्नवत्याह कश्चित्रे लिखितः प्राह तत्सखी । चन्द्रेन्द्रविष्णुकामानामेकः कोऽपि भविष्यति ॥ १२१ ॥ रत्नवत्याह निर्लक्ष्मा लोचनद्वयसुन्दरः । सुवर्णवर्णः स्वङ्गाङ्गस्तेभ्यो विसदृशस्ततः ॥ १२२ ॥