________________
अष्टमो भवः
३५५
३५६
त्रयस्त्रिंशत्पयोध्यायुरप्रतिष्ठानकस्थितः । भिन्नोऽस्म्युत्पातपाताभ्यां वज्राश्मकमलेष्वहम् ॥५३९।। कन्दुकुम्भकवल्लीषु दीप्तासु नरकाग्निना । पक्वः सीमन्तकाऽऽवासे निःसीमं दुःखमाश्रितः ।।५४०॥ निहतोऽस्म्यायुधैस्तीत्रैर्नरकेष्वपरेष्वपि । भिन्नो रौद्रत्रिशूलैश्च वज्रतुण्डैश्च भक्षितः ॥५४१॥ बहुशो वाहितस्तप्तयुगेषु च रथेष्वहम् । हिंसादोषाबलीचके कर्तं कर्तं तिलं तिलम् ॥५४२।। जिह्यमुत्खाय चाऽसत्याज्जल्पितोऽस्मि बलादपि । परद्रव्याऽपहाराच्च गृधैः क्षिप्तोऽस्मि दिक्ष्वहम् ॥५४३।। श्लेषितः शाल्मलि तप्तां परदाराऽभिलाषतः । जग्धश्च ढिङ्ककङ्काद्यैर्बारम्भपरिग्रहात् ॥५४४॥ भक्षितोऽस्मि निजं मांसं मांसभक्षणदूषणात् । वपुताम्रादिकं तप्तं पायितो मद्यपानतः ।।५४५।। तिर्यक्ष्वपि मया दु:खं प्राप्तं तीव्रमनेकशः । बन्धवाहनभाराद्यैर्दहनाङ्कनभेदनैः ॥५४६।। नरेष्वपि नराधीश ! दुःखदारिद्मविद्रवैः । तन्न किञ्चिदिदं दुःखं त्यज निष्कारणां शुचम् ॥५४७।। राज्ञोचे नैव शोच्यस्त्वं सफलं तव जीवितम् । सम्प्राप्तं हि विवेकास्त्रं निजिता भावशत्रवः ॥५४८।। वश्या तप:श्रीस्त्यक्तश्च प्रमादः स्वं स्थिरं व्यधाः । व्यतीतं भवकान्तारं प्राप्तप्राया च निर्वृत्तिः ॥५४९।। युग्मम् शोच्यस्तु क्लिष्टसत्त्वोऽयमुपसर्गकरस्तव । भगवानाह भूपाल ! संसारोऽसौ सदेदृशः ॥५५०॥
समरादित्यसंक्षेपः चिन्तयाऽऽत्मानमन्यस्य चिन्तया किं तया तव । नृपः प्राहाऽऽदिश स्वामिन् ! कुतो गृह्णाम्यहं व्रतम् ॥५५१॥ मुनिः प्राह भगवतो गुरोविजयधर्मतः । वचनं गुणचन्द्रपेस्तथेति विदधे च सः ॥५५२।। अथ क्षीणायुषो वानमन्तरस्याऽभवद् गदः । समेतश्च स्वभावोऽस्य संमुखो नरकावनेः ॥५५३।। विपर्यासोऽभवत्तस्याऽशुभेषु विषयेष्वतः । ततो विष्टाङ्गरागाद्यैर्बभूव मनसो धृतिः ॥५५४|| महाक्रन्दयुतो रौद्रध्यानी मृत्युवशङ्गतः । त्रयस्त्रिंशत्पयोध्यायुः सप्तम्यां नारकोऽभवत् ॥५५५।। कृत्वा संयममुज्ज्वलं समतयाऽऽत्मानं विधूतैनसं पश्यन्नात्मनि पादपोपगमनं श्रित्वा च तत्त्वाश्रयः । जीवः श्रीगुणचन्द्रभूपतियतेर्देवो विमाने त्रयस्त्रिंशत्सागरजीवितः समभवत् ससर्वार्थिसिद्धाभिधे ॥५५६।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपेऽजनिष्ट जनिरष्टमी ॥५५७||