________________
अष्टमो भवः
स तया पीडितः काये न तु भावे महामनाः । अहतेऽत्र पुनः कुद्धः शिलामन्यां मुमोच सः ॥ ५१६ ॥ एवं त्रिः प्रहतस्तेन शिलया न मृतो यदा । तदा धर्मान्तरायार्थमुपायं विदधेऽपरम् ॥५१७|| कस्याऽपि सदनं मुष्ट्वा मुक्त्वा मोषं च सन्निधौ । आख्यदारक्षकाणां स तेऽथ तत्र समाययुः ॥ ५१८ । वीक्ष्य तं भगवन्तं च शान्तमूर्ति तपः कृशम् । ते दध्युः कथमीदृक्षः कर्मेदृक्षमयं श्रयेत् ॥ ५१९ ॥
अथवा दम्भवैचित्र्यं मोषमन्वेषयामहे ।
दृष्टे मोषे धृताशङ्कः पृष्टश्च भगवानिमैः ॥ ५२० ॥ न स जल्पत्यथैकेन ताडितोऽपि न जल्पति । हृष्टस्तु खेचरो बद्धं नरकायुर्न्यकाचयत् ॥५२१॥
तलारक्षैरथाऽऽख्यायि विश्वसेनाय भूभुजे । समेतः प्रत्यभिज्ञाय तं ननाम स भावतः ॥५२२॥
ऊचे चाऽऽरक्षकान् किञ्चिद्विलोमं न कृतं मुनेः । ते प्रोचुस्तादृशं किञ्चिन्न चक्रेऽथ नृपोऽवदत् ॥ ५२३|| अहो स्वाम्ययमस्माकं गुणचन्द्राभिधो नृपः । सर्वसङ्गपरित्यागी ध्यानयोगं समाश्रितः ॥ ५२४ || समस्तेष्वपि भावेषु ममत्वपरिवर्जितः । करोति सफलं जन्म मानुषं जिनकल्पतः ॥ ५२५ ॥ युग्मम्
धन्योऽयमिति ते प्रोच्य क्षमयामासुराशु तम् । राज्ञोचे कथितं येन तमानयत लध्विह ॥५२६ ॥
श्रुत्वेत्यदर्शनीभूतः खेचरो वानमन्तरः । तमदृष्ट्वा च ते प्रोचुरधुनैव गतः क्वचित् ॥५२७॥
३५३
३५४
समरादित्यसंक्षेपः
राज्ञोचेऽमानुषः स स्यादुपसर्गकरो विभोः । तेन संक्लिष्टचित्तेन तदलं पापकारिणा ॥ ५२८ ॥ यात यूयं समाख्यात पुरे सान्तःपुरेऽपि च । राजर्षिर्गुणचन्द्रोऽस्त्यागतस्तं नमताऽऽदरात् ॥५२९॥
तदादेशे तलारक्षैर्गत्वा तत्र निवेदिते । अभ्येत्य पूजयित्वा च भक्त्या सर्वैर्नतः प्रभुः ॥ ५३०॥ अथाऽश्मपातनिर्घातमूर्छाव्यपगमे सति ।
राज्ञो राजर्षिर्वृत्तान्तमित्याख्यत्काष्ठभारिकः ॥ ५३१ ॥
त्रिः कोऽपि भगवत्यस्मिशिलां व्योमचरोऽमुचत् । तन्निर्घाताच्च मे मूर्छाऽऽगता वेद्म्यपरं न तत् ॥५३२॥
ततो नृपः सशुद्धान्तः शुद्धान्तःकरणोऽधिकम् । शोचन्भगवता ध्यानं पारयित्वेति भाषितः ॥ ५३३||
अलं शुचा महाराज ! दुःखरूपो ह्ययं भवः । सन्तस्तत्तापसंतप्ता धर्मशाखिनमाश्रिताः ॥५३४|| सम्यक्त्वमूलं सिद्धान्तस्कन्धं व्रतलतान्वितम् । शीलाङ्गपत्रलं देवनरद्धिकुसुमव्रजम् ॥५३५॥
जिनवाक्कुल्ययाऽजस्रं सिच्यमानमतुल्यया । निर्वाणफलमश्रान्तं सेवितं साधुपङ्क्तिभिः ॥५३६॥ विशेषकम्
मूढास्तु तुच्छभोगानां कृते क्लिश्यन्त्यनेकशः । जानन्तोऽप्यस्थिरं देहं स्वं पश्यन्त्यजरामरम् ॥५३७॥
किं च राजन् ! मयाऽप्यत्र संसारे भ्रमता चिरम् । किं किं दुःखं न सम्प्राप्तं बहुकृत्वः सुदारुणम् ॥५३८||
१. धर्मवारिधिमाश्रिताः ख ग घ च ।