________________
३५१
३५२
अष्टमो भवः पुत्रपुत्राननं वीक्ष्य मुदा मैत्रीबलो नृपः । गुणचन्द्रं न्यधाद्राज्ये स्वयं तु व्रतमग्रहीत् ॥४९३।। तस्य नि:कण्टकं राज्यं न्यासकर्मसमन्वितम् । परिपालयतः कालः कियानप्यतिजग्मिवान् ।।४९४।। अन्यदा प्रावृडभ्यागाच्छन्नं जलधरैर्नभः । व्यजृम्भतोजितागजिर्नीपवाता ववुः सुखाः ॥४९५।। उल्ललास बलाकालिविधुद्विद्योतते स्म च । प्रनृत्ताः केकिनो वृष्टा मेघा हृष्टाश्च चातकाः ॥४९६।। नष्टं हंसै रुतं भेकैरुद्भिन्नं कन्दलैर्नवैः । खिन्नं पथिकजायाभिनिवृत्तं महिषीव्रजैः ॥४९७|| नृपोऽथ सरितः पूरं द्रष्टुं परिजनान्वितः । ययौ दृष्टा च सा तेन तृणकाष्ठादिसङ्कुला ॥४९८|| कूले प्रपातयन्ती द्राग् नाशयन्ती तटदुमान् । कल्लोलकलिता त्यक्तमर्यादाऽत्यन्तभीषणा ॥४९९।। आकुला क्रूरयादोभिर्वर्जिता दूरतो बुधैः । आवतैः संकुलाऽनेकैः कलुषं स्वं प्रकुर्वती ॥५००॥ विशेषकम् तां निरीक्ष्य मुहूर्तेन प्राविशन्नगरी नृपः । शरद्यथ व्रजन्वाहकेलिमैक्षत तां नदीम् ॥५०१।। स्वच्छोदकामपक्रूरसत्त्वां साधुजनोचिताम् । तां वीक्ष्य पूर्ववृत्तान्तस्मृतेर्दध्यौ नराधिपः ॥५०२।। मन्ये नदीरयप्रायं पुरुषस्यद्धिविस्तरम् ।
यदेषोऽपि महारम्भः शुभकूलप्रपातकः ॥५०३।। १. तोजितो गर्जि ङ। २. पथिकजाषा० ख ।
समरादित्यसंक्षेपः विनाशयति धर्मद्रून् स्वं च कश्मलयत्यलम् । सत्त्वैः संयुज्यते कूरैः साधुभिश्च वियुज्यते ॥५०४।। सेव्यते कृत्यमर्यादारहितो मदवीचिभिः । अपकारी स्वपरयोर्मोहावर्तविवर्तनः ॥५०५।। विशेषकम् स्वभावे तु मन:शुद्ध: पापमित्रविवर्जितः । जीवलोकोपकाराय जायते सिन्धुवाहवत् ॥५०६।। बाह्यस्तु विस्तरः पुंसः परलोकाऽन्तरायकम् । तत्तं विहाय स्वार्थाय कृर्वे यत्नं समाहितः ।।५०७॥ विचिन्त्येति समागत्य निजाकूतं न्यवेदयत् । रत्नवत्यै प्रधानानां सामन्तानां च मन्त्रिणाम् ॥५०८।। एतैरनुमतो न्यस्य राज्ये धृतिबलं सुतम् । गुरुं काशिस्थितं मत्वा तत्रागात्सपरिच्छदः ।।५०९॥ नत्वा गुरुं निवेद्य स्वाकूतं तेनोपबृंहितः । शुभे मुहूर्ते काशीशकृतनिष्क्रमणक्षणः ॥५१०।। रत्नवत्या प्रधानेन समं परिजनेन च । गुरोविजयधर्माख्याद्यतिधर्म नृपोऽग्रहीत् ।।५११॥ युग्मम् काले कियत्यप्यभ्यस्तसूत्रो ज्ञातक्रियाक्रमः । गुरूनापृच्छ्य कल्पज्ञो जिनकल्पं प्रपन्नवान् ।।५१२।। तपसा सत्त्वसूत्राभ्यामेकत्वेन बलेन च । तुलनां पञ्चधा कृत्वा नियूंढस्तासु सात्त्विकः ॥५१३।। युग्मम् कियत्यपि गते काले कोल्लाके सन्निवेशने । समागतो रहस्येष स्थितः प्रतिमया स्थिरः ॥५१४।। तदा च मलयं गच्छन् वीक्ष्य तं वानमन्तरः । कुद्धो गिरिशिलामेकां तस्योपरि विमुक्तवान् ।।५१५।।