________________
अष्टमो भवः
३४९
३५०
कृतानि प्राभृतेऽमुष्याः कदलानि च नन्दया । सितपुष्पकरश्चैत्य प्रोवाचेति पुरोहितः ॥४७०॥ देवि देवगुरूणां हि वर्तते वन्दनक्षणः । दध्यौ रत्नवती हृष्टा संदेहो नात्र कश्चन ॥४७१।। अनुकूल: समग्रोऽपि यदेष शकुनव्रजः । आर्यपुत्रेण तत्सम्यग् वीतरागवचः श्रुतम् ॥४७२।। लब्धः शिवाध्वा वाग्देवीतुल्यायाः कथमन्यथा । एतस्याः परमानन्दशब्दोऽयं स्फुरितो मुखात् ।।४७३॥ अथ नत्वा गणिन्युक्ता स्थातुं वः कल्पते निशि । गणिन्युवाच यत्र त्वं तत्र नैवं विरुध्यते ॥४७४।। गच्छामि साम्प्रतं तावन्न दूरेऽस्मत्प्रतिश्रयः । इत्युक्त्वा गणिनी यान्ती रत्नवत्यनुजग्मुषी ॥४७५।। निवृत्य चोचिताद्देशात्सान्ध्यकृत्यं विधाय च । नमस्कारपरा रात्रिमतिवाहयति स्म सा ॥४७६|| प्रातः श्वशुरमापृच्छ्याऽनुज्ञाता तेन साऽगमत् । वन्दित्वा गणिनी श्रुत्वा धर्ममागात्पुनर्गृहम् ।।४७७|| द्वितीयदिवसे धर्मानुरागाद् गणिनी गृहे । रत्नवत्याः समागत्याऽऽचख्यौ धर्मकथां मुदा ॥४७८।। इत्थं गणिन्युपास्त्या सा निनाय चतुरो दिनान् । पञ्चमे पर्युपासाना गणिनी यावदस्ति सा ॥४७९।। समेत्य चन्द्रसुन्दर्या तावत्तस्या निवेदितम् । सत्यं भगवतीवाक्यं त्वच्चित्तानन्द आगमत् ।।४८०॥ तुष्टा रत्नवती तस्यै व्यतरत्पारितोषिकम् । कुमारस्तु समं यातो विग्रहेण नृपान्तिकम् ।।४८१।।
समरादित्यसंक्षेपः आख्याय विग्रहोदन्तं तातेन बहुमानितः । आगतो गणिनीयुक्तां प्रियां प्रेक्ष्य स पिप्रिये ॥४८२।। ववन्दे गणिनी लब्धधर्मलाभोऽवदच्च ताम् । मम पुण्योदयं पश्य महान्तं भगवत्यमुम् ॥४८३।। यतः श्रीसुगृहीताख्यगुरुणा बोधितोऽस्म्यहम् । त्वया च बोधिता देवी द्वितीयं हृदयं मम ॥४८४|| दृष्टा भगवती जन्मशतदुर्लभदर्शना ।। गणिन्युवाच पुण्यानुबन्धिपुण्यान्न किं भवेत् ॥४८५।। अस्माद्धि प्राणिनां मुक्तिसुखं स्यादपरं तु किम् । कुमारः प्राह मुक्ति: स्यात्पुण्यपापक्षयेऽपि चेत् ॥४८६।। तथापि कारणं तत्र पुण्यं पुण्यानुबन्धकम् । तद्विपाकं विना भावस्तादृशो हि न लभ्यते ॥४८७|| गणिन्यूचे कुमारेण साध्वेतदवधारितम् । अथवा कुशलानां स्याद्धेतुमात्रं हि देशना ॥४८८।। इत्थं धर्माऽऽख्यया वेलां निर्गम्य कियतीमपि । तावापृच्छय परिप्रीतौ निजस्थानं गणिन्यगात् ॥४८९|| सधर्मधर्मसम्पत्त्याऽतुष्यत्तन्मिथुनं मिथः । चक्रे भुक्तोत्तरं धर्मवृत्तान्तं च श्रुतानुगम् ॥४९०|| गतौ च गणिनीपार्श्वे तस्याः शुश्रुवतुर्गिरम् । उचिते समये वेश्म पुनरेव समागतौ ॥४९१।। इत्थं प्रतिदिनं धर्मयोगाराधनयुक्तयोः । बाढं भावितयोधर्मे पुत्रः कालकमादभूत् ॥४९२।।
१. धर्मयुक्ता
क ।