________________
३४७
३४८
अष्टमो भवः तत्राऽपि किं भवान्हेतुर्दोषोऽयं मत्कृतः खलु । राज्ञोचे देवि ! सामान्याद्विजानाम्यहमप्यदः ॥४४६॥ विशेषज्ञानयुक्तेव देवी मन्त्रयते पुनः । मयोचे सत्यमेवेदं राज्ञोचे कथमुच्यताम् ॥४४७।। मयाऽऽख्यायि मृतिध्यानगुरुसंदर्शनादिकः । श्रीनमस्कारलाभान्तो वृत्तान्तो निखिलस्ततः ॥४४८|| ततो भगवतो ज्ञानातिशयाद्विस्मितो नृपः । अल्पपापमहदुःखश्रुतेः संवेगमागमत् ॥४४९।। ऊचे च क्व गुरुः प्रोक्तं मयास्ति निकषा गिरिम् । मया सहोपगुर्वेष गतः परिजनान्वितः ॥४५०।। प्राणमत्प्रमनाः पूज्यममुना धर्मलाभितः । स प्राह सर्वो वृत्तान्तो देव्याऽऽख्यायि मम प्रभो ! ॥४५१।। तदल्पस्याऽपि पापस्य विपाकः स्याद्यदीदृशः । किं कर्तव्यं ममाऽनेकविधपापजुषस्तदा ॥४५२॥ विभुराह महाराज ! कर्तव्यं शृणु सादरः । विरतिः सर्वसावद्ययोगे सत्प्रणिधानतः ॥४५३।। अतीतस्य प्रतिक्रान्तिः संविग्नेन च चेतसा । अत्यन्तमनिदानं च प्रत्याख्यानमनागते ॥४५४।। एवं कृते सति क्षमाप महत्कुशलभावतः । पापानि मेघवृष्टयेवाऽर्चीषि शाम्यन्त्ययत्नतः ॥४५५॥ शुभाशयो भवत्युच्चैर्जीववीर्यं समुल्लसेत् । विशुध्यत्यन्तरात्मा च प्रमादः पर्यवस्यति ॥४५६।। मिथ्याविकल्पा नश्यन्ति खिद्यते भवसन्ततिः । कर्माऽनुबन्धश्चापैति प्राप्यते परमं पदम् ॥४५७||
समरादित्यसंक्षेपः तदिदं भवता कार्य राज्ञोचेऽनुग्रहो महान् । ततोऽहं वीक्षिताऽवोचं देव युक्तमिदं ध्रुवम् ॥४५८॥ अथाऽदायि महादानं कारितोऽष्टाहिकामहः । ज्येष्ठश्च तनयो राज्ये स्थापितः सुरसुन्दरः ॥४५९।। सामन्तैः सचिवैर्युक्तो मया चाऽन्तःपुरेण च । सुगृहीताभिधगुरोः समीपे प्राव्रजन्नृपः ॥४६०॥ वत्से ! तदेवं स्तोकेन कर्मणेहग् मयाऽऽप्यत । विपाकस्तव तु स्तोकस्याज्ञानस्य विजृम्भते ॥४६१।। बहोस्तु तिर्यगादौ स्यात्तत्कर्मपरिणामजम् । मत्वा दुःखमिदं नैव संतप्यं ज्ञानशालिना ॥४६२।। रत्नवत्याह भगवत्यनुभूतं बहु त्वया । दु:खं त्वं तु कृतार्थाऽसि योत्तीर्णा क्लेशपङ्कतः ॥४६३।। धन्याऽहमपि दृष्टा त्वं यया चिन्तामणिप्रभा । तदादिश मया कार्यं यदथो गणिनी जगौ ॥४६४।। गृहिधर्म नमस्कारपूर्वकं त्वं गृहाण तत् । तथा रत्नवती कृत्वाऽपृच्छच्च गणिनीमिति ॥४६५।। याहग्भर्तुः परानन्दयोगे संभवति स्वरः । तादृशस्ते त्वयाऽऽदिष्टं परानन्दः स कीदृशः ॥४६६।। किं कुतोऽप्यार्यपुत्रेण श्रुतं जिनपतेर्वचः । गणिनी प्राह वत्सेऽहं तर्कयामीति चेतसि ॥४६७|| तदा जगर्ज मत्तेभो मङ्गलातोद्यमध्वनत् । तदा त्वस्योचितं चेत्यपाठीन्मङ्गलपाठकः ॥४६८।। धर्मोदयेन तन्नास्ति यन्न स्यादिह ! विष्टपे । मत्वेति त्वं दृढं धर्मं कुरु सुन्दरि सम्प्रति ॥४६९॥