SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अष्टमो भवः श्रुत्वेत्यपगतं मोहतमो मेऽभूद्विरागिता । जाता जातिस्मृतिर्बद्धः संवेगो वन्दितो गुरुः || ४२३ || उक्तं च भगवन्नेवमिदं मम कदा पुनः । प्राच्यकर्मविपाकोऽयं सकलोऽपि त्रुटियति ॥ ४२४ ॥ गुरुराख्यदहोरात्रादस्मादेव मयोदितम् । कथं तां यक्षिणीमार्यपुत्रो विज्ञास्यति प्रभो ! || ४२५ ।। गुरुः प्रोचेऽद्य रात्रौ त्वत्स्वभावात्तुल्यभावतः । सशङ्कमानसः स्वस्य मन्त्रिणः कथयिष्यति ॥४२६|| न्यस्तेऽथ मन्त्रिणा जैनबिम्बे प्रोल्लङ्घिते तया । नेयं देवी महीपालंश्चित्ते निश्चेष्यतीदृशम् ॥४२७॥ कृष्टरिष्टिस्ततश्चैनां हन्तुमुत्थास्यति स्वयम् । तिरोधास्यति निःपुण्या सा पुण्यजननार्यपि ॥ ४२८ ॥ मयोचे कुशलं तस्या नार्यपुत्रः करिष्यति । गुरुः प्राह न किं तु त्वदुःखात्संतप्स्यतेऽधिकम् ॥४२९|| मयोचे भगवन् दोषो नार्यपुत्रस्य कश्चन । केवलं मम कर्मेदं गुरुः प्राह तथेति च ॥ ४३० ॥ तथापि मोहदोषेण संतप्तः श्वः समेष्यति । त्वां दृष्ट्वा च त्वया युक्तः सुखितोऽति भविष्यति ||४३१ || ततस्त्वया न संतप्यं मयोक्तं भगवन् ! गतः । त्वदीक्षणेन संतापो विरक्तं च मनो भवात् ॥४३२|| तत्किं मम नृपाऽऽगत्या वियोगान्ता हि सङ्गमाः । कीदृशं सुखितत्वं च जरामरणदुःखिनाम् ॥४३३॥ १. पुण्यजनमार्यपि क ग घ । ३४५ ३४६ समरादित्यसंक्षेपः गुरुराख्यदिदं सत्यं किं त्वत्यन्तसुखीभवेत् । जिनोक्तक्रियया तां च कुर्वन्सुस्थी भविष्यति ||४३४|| एतदाकर्ण्य हष्टाऽहमुक्ता भगवतेति च । सर्वमन्त्रोत्तमं वत्से ! सर्वकल्याणकारणम् ||४३५|| दुर्लभं जीवलोकेऽत्र सर्वभीतिप्रणाशनम् । अचिन्त्यशक्तिसंयुक्तं शिवसौख्यस्य साधकम् ||४३६॥ पूजनीयं सतां सर्वगुणानां प्रापकं परम् । परमेष्ठिमयं मन्त्रं गृहाण जिनभाषितम् ॥४३७॥ विशेषकम् महाप्रसाद इत्युक्ते मयाऽथ भगवाञ्जगी । प्राङ्मुखी वामतस्तिष्ठ स्थिता किञ्चिन्नता तथा ॥ ४३८|| भगवानुपयुक्तोऽथाऽस्खलितादिगुणान्वितम् । ददौ पञ्चनमस्कारं प्रत्यैच्छं तमहं मुदा ॥ ४३९ || नष्टेव भवभीमेऽथ समेतेवाऽथ निर्वृत्तिः । अनाख्येयप्रमोदोऽभूद्भगवानूचिवानथ ॥४४०॥ वत्से ! मन्त्रं स्मरन्त्याऽमुं त्वया गिरिगुहास्थया । निशि स्थेयमहं यामि श्वः पुनर्दर्शनं हि नः || ४४१|| मयोचेऽनुगृहीताऽस्मि गतश्च भगवांस्ततः । नमस्कारपराया मेऽतिक्रान्ता क्षणदा क्षणात् ॥४४२॥ प्रातः सादिशतैर्युक्ते समेते नृपतावहम् । दृष्टा सादिभिराख्याता तस्य सोऽन्तिकमागमत् ॥ ४४३|| साश्रुरूचे न कोप्यं मे मन्तुरज्ञानजो ह्ययम् । मयोचे कीदृशः कोपो भोक्तव्ये निजदुः कृते ॥ ४४४ हेतुरत्राऽहमित्युक्ते भूनेत्राऽहमभाषिष। आर्यपुत्र ! मया सोढं दुःखं जन्मान्तरेषु यत् ||४४५ ।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy