________________
अष्टमो भवः उत्पन्ना च तव प्रीतिर्यशोदामेभ्यभार्यया । बन्धुसुन्दर्यभिधया सदासंक्लिष्टचित्तया ॥३९९।। संसारस्याऽभिनन्दिन्या कामभोगेषु गृद्धया । अनपेक्षाजुषा प्रेक्ष्य पितृभ्यां वारिताऽसि च ॥४००।। युग्मम् वत्सेऽलमेतत्सङ्गेन पापमित्रसमा ह्यसौ । प्रतिषिद्धो हि तत्सङ्गस्तत्त्वयाऽवमतं वचः ॥४०१॥ अन्यदा त्वं गता वीक्ष्य विषण्णां बन्धुसुन्दरीम् । अपृच्छ: कारणं सोचे विरक्तः सखि ! मे प्रियः ॥४०२॥ रक्तश्च मदिरावत्यां मदिरायामिरापवत् । अजातपुत्रभाण्डा च विषण्णाऽस्मि ततो दृढम् ॥४०३।। त्वयोचेऽलं विषादेन कुरूपायं तयोदितम् । प्रवाजिकोत्पलाख्याऽस्ति कुशला कर्मणीदृशे ॥४०४|| न तु मेऽवसरस्तस्या दर्शनेऽथ त्वयोदितम् । क्व सास्तीतरया प्रोचे पूर्वस्यां नगराद् बहिः ॥४०५॥ गत्वा त्वयाऽथ सानीयाऽर्पिताऽस्यै त्वं गृहे गता । साऽचिता बन्धुसुन्दर्या वृत्तान्तः कथिते निजः ॥४०६।। परिवाजिकया प्रोचे धीरा भव करोम्यहम् । तस्यां विद्वेषणं पत्युः सा प्राहाऽनुग्रहो महान् ॥४०७|| तया तथा कृते श्रेष्ठी तत्याज मदिरावतीम् । गृहीता सा शुचा बद्धं त्वया कर्म च तद्भवम् ॥४०८।। ततस्त्वं परिपाल्याऽऽयु: कर्मदोषाद्वशाभवः । अप्रिया यूथनाथस्य पतिता वारिबन्धने ॥४०९।। मृता च वानरीत्वेनाऽभवस्तत्राऽपि दुर्भगा । यूथेशेन बहियूंथात्कृताऽथ पुरुषैधृता ॥४१०॥
समरादित्यसंक्षेपः लोहशृङ्खलया नद्धायुः प्रान्ते सरमाऽभवः । शुनामनिष्टा सर्वेषां पूर्वकर्मानुभावतः ॥४११॥ कीटभक्षितदेहा च मृता मार्जारिकाऽभवः । तत्राप्यनिष्टा सर्वेषामोतूनां कर्मदोषतः ॥४१२॥ मृता रथाङ्ग्यथो जाता सर्वदाऽपि प्रियोज्झिता । मृत्वा बभूव चाण्डाली तत्राऽपि प्रियवर्जिता ॥४१३।। मृत्वाऽभूः शबरीत्वेन सर्वाऽनिष्टा च पल्लितः । आकृष्टा शबरैः कर्मदोषाहुःखेन जीवसि ॥४१४|| अन्यदा मुनिभिर्मार्गभ्रष्टैः पृष्टाऽसि धार्मिकि । कोऽयं प्रदेशो मार्गश्च दूरे कियति तिष्ठति ॥४१५।। त्वयोचे सह्यकान्तारमिदं मार्गश्च सन्निधौ । दर्शयामीति भाषित्वा बहुमानेन दशितः ॥४१६।। चिन्तितं च विशुद्धेन चेतसाऽमी विमत्सराः । प्रियंवदाः प्रशान्ताश्च भाग्यैरेतत्समागमः ॥४१७। त्वयेति सिद्धचित्तत्वाद् बोधिबीजं समजितम् । ततश्च प्रणता भावात् साधुभिर्धर्मलाभिता ॥४१८॥ तदा त्वयाऽल्पकारऽऽम्भमार्दवाऽऽर्जवभावतः । साधुसन्निधिसामर्थ्यान्मनुष्यायुर्यबध्यत ॥४१९।। गतेष्वपि मुनिष्वेषु तदनुस्मरणात्तव । नैवाऽत्रुटच्छुभो भावस्त्रुटितं जीवितं पुनः ॥४२०॥ जाता तत्कर्मशेषेण सहिता श्वेतवीपतेः । दुहिता कोशलेशेनोपयताऽसि च रूपतः ॥४२१।। कर्मशेषादयं च त्वां यक्षिणीरूपवञ्चितः । इत्थं कदर्थयामास वत्सेऽनुत्सेकवानपि ॥४२२।।