________________
३४१
३४२
अष्टमो भवः मयोचे क्वाऽऽर्यपुत्रस्त्वं क्व चाऽविश्वस्ततेदृशी। तन्निमित्तं समाख्याहि चित्तं पर्याकुलं हि मे ॥३७५।। नृपोऽवोचदलं पर्याकुलत्वेनाऽति चादरात् । पृष्टेन कथितस्तेन वृत्तान्तो यक्षिणीभवः ॥३७६|| मयोचेऽभिनिविष्टा सा कथमेतद्भविष्यति । राज्ञोचे देवि किं तस्या भवेदभिनिवेशतः ॥३७७|| यद्याप्नोम्यधुनाऽप्येतां तत्तथाऽहं कदर्थये । कुरुतेऽभिनिवेशं सा यथा न पुनरप्यमुम् ॥३७८।। अन्यदा वासवेश्मस्थे नृपे तत्र व्रजन्त्यहम् । स्त्रिया स्वतुल्यया सार्धमपश्यं तल्पगं नृपम् ॥३७९।। संक्षुब्धाऽहं ततो दृष्टा वलमाना महीभुजा । उक्ता क्व यासि पापिष्ठे ! ज्ञाता माया मया तव ॥३८०॥ देवि ! पश्यसि पापाया धृष्टत्वमिति तां स्त्रियम् । उक्त्वाऽधावत मत्पृष्ठे केशेषु जगृहे च माम् ॥३८१।। मयोचे वेपमानाङ्याऽऽर्यपुत्र ! किमिदं ननु । स मद्वचोऽवमत्यैतां स्त्रियमाहूय चावदत् ॥३८२।। देवि पश्यसि पापाया धृष्टत्वं कूटचेष्टितम् । यादृगुक्तं त्वया पश्य तादृग् विहितमेतया ॥३८३।। तव वेषं विधायैषा समेताऽथ तयोदितम् । आर्यपुत्राऽलमनया निर्वासय पुरादिमाम् ॥३८४।। नृपेणाऽथ समाहूय यामिका भणिता इति । दुष्टां यक्षवधूमेतां देवीनेपथ्यधारिणीम् ॥३८५।। कदर्थयित्वा निःशूकं निर्वासयत वेगतः । आदेश इति तैरुक्त्वा गृहीता वैरिणी यथा ॥३८६॥ युग्मम्
समरादित्यसंक्षेपः आः पापिनीति जल्पद्भिः केशबाहूत्तरीयतः । केनाऽपि विधृता क्वाऽपि नृपस्याऽग्रे कथिता ॥३८७।। बहिर्नीत्वा च दुःशीलस्त्रीवद् बाढं विडम्ब्य च । निर्वास्य नगरोद्यानसन्निधावृज्झिताऽस्मि तैः ॥३८८।। उक्ता च भवने राज्ञः प्रवेक्ष्यसि पुनर्यदि । ततोऽस्मदीयहस्तेन गन्ताऽसि यमसद्मनि ॥३८९|| गतेषु राजमत्र्येषु दध्यौ च किमहो मया । प्राप्तं पापपरीणामादपि मन्तुविहीनया ॥३९०॥ व्यापादये तदात्मानं पतित्वा गिरिशृङ्गतः । ध्यात्वेति तत्रारोहन्ती दृष्टा साधुजनैरहम् ॥३९१।। अथ ज्ञानयुतो दुःखिवत्सलः साधुभिर्वृतः । गुरुर्दृष्टो नतश्चैष तेनाहं धर्मलाभितः ॥३९२।। उक्त्वा सुसंगते वत्से न संतप्यं हृदि त्वया । भवेऽत्र प्राणिनः प्रायो भवन्ति विपदां पदम् ॥३९३।। दु:कृतानां कृतानां प्राक् छुटन्ति न कथञ्चन । अकृत्वा वचनं चारु वीतरागनिदेशितम् ॥३९४|| मयोक्तं भगवन् ! किं प्राक् पापकर्म मया कृतम् । यस्येदृशो विपाकोऽभूद् भगवानाह तच्छृणु ॥३९५।। उत्तरस्यां दिशि ब्रह्मसेनो ब्रह्मपुरेश्वरः । अभूद् बहुमतस्तस्य विदुरो नामतो द्विजः ॥३९६|| पुरंदरयशा नाम तत्पत्नी त्वं तयोः सुता । आसीश्चन्द्रयशा नामातीतेऽस्मान्नवमे भवे ॥३९७।। पित्रोरिष्टा भवत्याश्च तौ धर्म दिशतः सदा । जैनं तव तु बालत्वात्परिणामे समेति न ॥३९८।।