________________
अष्टमो भवः
गणिन्यवोचदज्ञानस्याऽल्पस्येदं विजृम्भितम् । अल्पेन कर्मणा यच्च मयाऽऽप्तं शृणु तन्ननु ॥३५१||
समस्ति कोशलाधीशो नरेशो नरसुन्दरः । तस्याऽत्र जन्मपर्याये संजज्ञे धर्मपत्न्यहम् ॥ ३५२ ||
अन्यदा वाहकेल्यां स वाहेनाऽपहतोऽपतत् । अटव्यां तत्र चापश्यदपूर्वी कामपि स्त्रियम् ॥३५३||
तया प्रोक्तो महाराज ! स्वागतं ते निविश्यताम् । राजा प्रोवाच काऽसि त्वं प्रदेशश्चैष को वद ||३५४ ||
सोचे मनोरथा नाम यक्षिण्यहमिदं पुनः । विन्ध्यारऽण्यं नृपः प्राह त्वमत्रैकाकिनी कुतः ॥ ३५५॥
सोचेऽहं नन्दनोद्यानादभूवं मलयं गता । सह प्रियेण स त्वत्र क्रुद्धो निष्कारणं मयि ॥ ३५६ ॥ गतस्त्यक्त्वा स मां क्वाऽपि तेनैकाऽहं नृपोऽवदत् । द्वाभ्यामपि कृतं नैव सुन्दरं साऽवदत्कथम् ||३५७॥ नृपः प्राहोज्झिता पत्या तेनामा(?) त्वं च नागमः । सा प्राह तेन नाथेनाऽविशेषज्ञेन पूर्यताम् || ३५८ ।।
नाऽयं धर्मः कुलीनानां विज्ञानां च नृपोदिते । सोचे किं तस्य विज्ञत्वं योऽनुरक्तं जनं त्यजेत् ॥ ३५९ ॥
राज्ञोचे को विना दोषमनुरक्तं त्यजेज्जनम् ।
साऽऽह योऽज्ञ इति प्रोच्य सविलासं व्यलोकत || ३६०||
राज्ञाऽवगणिता मोहदोषादाह गतत्रपा ।
राजंस्त्वयोक्तं निर्दोषं कोऽनुरक्तं जनं त्यजेत् ॥३६२॥
ततोऽवमन्यसे किं मां राज्ञोचे जल्प मेदृशम् । परस्त्री त्वं हि सा प्राह पुंसः सर्वाः परस्त्रियः ॥३६२॥
३३९
३४०
समरादित्यसंक्षेपः
राज्ञोचे वक्रवाक्येन परलोकविरोधिना । कृतमेतेन सा प्रोचेऽलीकवाक्यमपीदृशम् ॥३६३॥ नृपः प्राह मयालीकं किमुक्तं यक्षिणी जगौ । कोऽनुरक्तं जनं विज्ञो विना दोषं परित्यजेत् ॥३६४|| किमत्रालीकमित्युक्ते राज्ञा प्रोवाच सा यतः । परित्यजसि मां रक्तां नृपतिः प्राह तामथ ॥ ३६५॥ मयि नैवानुरक्ता त्वमहिते विनियोजनात् । अत एव न निर्दोषा परलोकाऽनवेक्षणात् ॥ ३६६॥
सा प्राह किं बहूक्तेन न मानयसि मां यदि । ततोऽहं नियमेन त्वां निहन्म्यथ नृपोऽवदत् ॥ ३६७॥ कस्त्वया हन्यते भद्रे ! रण्डया यश्च हन्यते ।
नरस्तस्य न युक्तं स्यादपि दानं जलाञ्जलेः || ३६८ || द्वेषदष्टाधरा साथ पृथ्वीशं प्रत्यधावत । तस्य हुङ्कारमात्रेण जज्ञे लुब्वददर्शना ॥ ३६९ ॥ नृपोऽथ चलितः स्तोकं भूमिभागं समागतः । यावत्तावदकाण्डेऽप्यपतत्काञ्चनपादपः || ३७० ॥ अलग्नेऽत्र नृपोऽपश्यदूर्ध्वं दृष्टा च साऽम्बरे । तयोचे च दुराचार ! कतिकृत्वश्छुटिष्यसि ॥३७१॥ नृपः प्रोवाच हा पापे ममाऽसि त्वमगोचरे । अन्यथा तु निगृह्णामि त्वामहं नात्र संशयः ॥ ३७२ ॥ तिरोहिता पुनः साऽथ सैन्येनाऽश्वाऽनुगामिना । मिलितः कथमप्यागात्कोशलां कुशली नृपः ॥ ३७३|| वर्धापनं कृतं लोकैरविश्वस्तस्तु सर्वतः ।
पृष्ट हेतुं मया प्रोचे न किञ्चिदपि भूपतिः ||३७४॥