________________
३६३
३६४
नवमो भवः बालानां कामिनां मन्ये शास्त्रमेतद्विनोदकृत् । जीवानां कर्महतूनि कि तु कामसुखान्यपि ॥७०|| उत्तरस्याऽसमर्थस्तैः कुमारवचनं मतम् । दिनैः कतिपयैर्वीतैः पुनस्तेऽमन्त्र्यन्निति ॥७१।। ऋषितुल्य: कुमारोऽयं कथमस्मादृशैर्जनैः । शक्यते कामभोगेष्वाहतैरपि नियोजितम् ॥७२।। तथाप्येक उपायोऽस्ति यतो दाक्षिण्यवानयम् । मित्राणि मन्यतेऽस्मांश्च वच्मस्तद्दारसंग्रहे ॥७३॥ ध्यात्वेत्यवसरेऽशोकोऽवदत्त्वां वच्मि किञ्चन । कुमार मित्रवात्सल्यं सता कार्यं न वा वद ॥७४।। कुमारोऽथ जगौ साधु पृष्टं मित्रं भवेत् त्रिधा । अधर्म मध्यमं चैवोत्तमं च गुणभेदतः ॥७५॥ आत्मनोऽप्यधिकं दृश्यमानं संमानितं सदा । कार्योऽन्यथा स्याद्यन्मित्रं ज्ञेयं तदधमं बुधैः ॥७६।। कदाचित्संगतं यत्तु लाल्यते चोत्सवादिषु । विधुरे च विलम्बेन त्यजत्येतद्धि मध्यमम् ॥७७|| उत्तमं तु नमस्कारमात्रतो मित्रतां गतम् । दु:खान्मोचयते गाढं विपत्स्वपि न मुञ्चति ॥७८।। एवं स्थितं समालोच्य निजमत्या नरोत्तमः । सर्वथाप्युत्तमे मित्रे सदा भवति वत्सलः ||७९|| कामाङ्करोऽवदत्कोऽत्र भावः ख्यातमिदं यतः । जघन्यमध्यमे त्यक्त्वोत्तमं मित्रं निषेव्यते ॥८०॥ कमारः प्राह भावोऽयमेव यः कथितस्त्वया । ललिताङ्गोऽवदन्नतज्ज्ञायते विवृति विना ॥८१।।
समरादित्यसंक्षेपः तत्कानि त्रीणि मित्राणि विवृत्याऽऽख्याहि साम्प्रतम् । कुमारः प्राह न ज्ञातं युष्याभिः श्रूयतां ततः ॥८२॥ पारमार्थिकमित्राणि प्रतीत्येदं मयोदितम् । तत् प्रसिद्धं च को नाम न जानाति सचेतनः ॥८३|| तदत्र मित्रमधर्म देहो ज्ञातिस्तु मध्यमम् । उत्तमं परमो धर्मस्तद्भावार्थं निबोधत ॥८४|| सदोपचर्यमाणोऽपि विकरोत्येव विग्रहः । संगतां शत्रुपक्षे च विस्त्रसामनुवर्तते ॥८५।। क्षणादेव त्यजत्यन्तकालापदि ततोऽधमम् । स्वजनऽस्तु ममत्वस्याऽनुरूपं चेष्टते सदा ॥८६।। क्लिश्यते ग्लानकार्येषु जहाति गतजीवितम् । स्मरत्यवसरे प्राप्ते तन्मित्रं मध्यमं ततः ॥८७।। विशेषकम् धर्मों यथा तथा व्याप्त एकान्तेनैव वत्सलः । निर्भयो मित्रतां निर्वाहयत्येव तदुत्तमम् ॥८८॥ ज्ञात्वेत्यनित्ये विषयसौख्येऽसारे स्वभावतः । विपाकदारुणे धीरपुरुषैरवधीरिते ॥८९|| प्राप्तेऽपि च मनुष्यत्वे भवाटव्यां सुदुर्लभे । सुक्षेत्रे गुणधान्यानां निर्वाणस्य प्रसाधके ।।९।। मोहं हित्वा पदं ध्यात्वाऽचिन्त्यचिन्तामणिप्रभे । उपादेये जिनप्रोक्ते धर्ममित्रेऽत्रमिद्यते ॥९॥ विशेषकम् श्रुत्वेत्यशोकमुख्यानां व्यगलत्कर्मसंहतिः । ग्रन्थिभेदेन मिथ्यात्वं क्षयोपशममागतम् ।।९२॥ अशोकोऽथ ससंवेगोऽवददित्थमिदं खलु । संदेहो नात्र निर्दिष्टं कुमारेण सुशोभनम् ॥१३॥