________________
३६५
नवमो भवः कामाङ्करोऽवदत्सत्यं शोभनादपि शोभनम् । रम्यं यदिदमेवैकं नास्ति रम्यमतः परम् ॥९४|| ललिताङ्गोऽवदन्मोहनिद्रासुप्ताः प्रबोधिताः । कुमारेण विदध्मोऽस्य तदाज्ञामात्मनो हिताम् ॥९५।। अशोकोऽथाऽवदत्साधु ललिताङ्गेन भाषितम् । सर्वैरूचे कुमारो नः कृत्यमादिशतु द्रुतम् ॥१६॥ सोऽथ प्रोचे समासेन हेया विषयवासना । ध्येयं भवस्वरूपं च वर्जनीयः कुसंगमः ॥९७|| साधवः सेवनीयाश्च यथाशक्ति विधीयताम् । दानशीलतपोभावरूपो धर्मश्चतुर्विधः ॥९८॥ युग्मम् ते प्रोचुः प्रतिपेदेऽदः साधु साधु वचस्तव । कुमारः प्राह धन्याः स्थ सफलं जन्म वोऽभवत् ॥९९।। ते प्राहुः स्यादधन्यानां किं कुमारस्य दर्शनम् । इति स्तुत्वा ययुर्वेश्म चकुस्तच्च यथोचितम् ॥१००।। अथाऽऽगात्परपुष्टानां मधुर्मधुरितस्वरः । वनश्रियो व्यजृम्भन्त पुष्वितास्तिलकादयः ॥१०१।। वासन्त्युदलसच्चूतो मञ्जरीजालमालितः । मुदिता भ्रमरश्रेणिः प्रवृत्तो मलयानिलः ॥१०२।। यस्मिन्बहुमता हाला दोला परिवहन्ति च । उद्यानानि निषेव्यन्ते चन्द्रश्चित्तहरोऽभवत् ॥१०३।। प्रेरणानि प्रवर्तन्ते गान्धवं बहु मन्यते । विशिष्टोज्ज्वलनेपथ्याः कीडन्ति तरुणव्रजाः ॥१०४॥ देवतानामपि रथा भ्राम्यन्ति च विभूतिभिः । यान्ति स्मरशरत्रस्ताः शरणं च प्रियाः प्रियान् ॥१०५।।
समरादित्यसंक्षेपः एवंविधे मधौ भूपमेयुः पुरमहत्तमाः । ऊचुश्चोत्सववीक्षार्थं प्रीतः स प्राह तान्प्रति ॥१०६।। बहुशोऽपि मया दृष्टो वसन्तसमयोत्सवः । साम्प्रतं तु कुमारस्यावसरोऽस्याऽवलोकने ॥१०७|| हृष्टास्तेऽथ ययुर्भूपः समरादित्यमाह्वत । ऊचे च वत्स ! पौराशां पूरयोत्सवदर्शनात् ॥१०८॥ तातादेशः प्रमाणं मे कुमारेणेति भाषिते । हृष्टो नृपः समादिक्षत् प्रतीहारानुदारगीः ॥१०९।। ज्ञानगर्भादिकामात्यान् ममादेशेन भाषत । चर्चरीदर्शनसुखं यत् कुमारः श्रयिष्यति ॥११०॥ पौराणां परितोषार्थमुद्यानं च गमिष्यति । ततो रथवरं सज्जीकुरुत त्वरितक्रमम् ॥११॥ समादिष्टे प्रतीहारैरथ ते रथवेश्मतः । समाकृष्य रथं चक्रुर्यन्त्रयोत्रसमन्वितम् ॥११२॥ निबद्ध किङ्किणीजालं वैजयन्त्यः समुच्छ्रिताः । बद्धानि रत्नदामानि ग्रथिता मौक्तिकस्रजः ॥११३।। आसनं कल्पितं रम्यं लम्बिता चामरावली । श्रुत्वेति पापमूलानि सहर्षाणि समाययुः ॥११४|| कुङ्कमक्षोदसम्पूर्णकच्चोलककरोऽमिलत् । भुजङ्गलोकः पुष्पर्तुयोग्यनेपथ्यधारकः ॥११५।। तस्थुः परिजनैर्युक्ता राजपुत्रा दिदृक्षवः । प्रग्रीवेष्वस्थुरुद्गीवाः कम्बुग्रीवाः सहस्रशः ॥११६।। प्रावर्ततोत्सवः पुर्यामथागत्य निवेदितम् । सचिवैर्नृपतेर्दैवविहितं देवशासनम् ॥११७।।