________________
नवमो भवः
प्रोचे कुमारः शृणुत कामशास्त्रमिदं खलु । आख्यतः शृण्वतश्च स्याद्वस्तुतोऽज्ञानकारकम् ॥४६॥ यतो विडम्बनाप्रायाः कामभोगा विषोपमाः । जन्तवो न्यक्कृता ह्येतैर्महामोहस्य दोषतः ॥४७॥
परमार्थं न वीक्षन्ते न जानन्ति हिताऽहितम् । विचारयन्ति नो कृत्यं नायति चिन्तयन्ति च ॥ ४८ ॥ विशेषकम्
यत्कामिनोऽबलाङ्गेष्वशुचिष्वशुचिहेतुषु । कुन्देन्दीवरचन्द्रादिरम्यतां हृदि बिभ्रति ॥४९॥
अशुचौ निरतास्तत्र गर्ताशूकरवच्च ते । मूढाः सजन्ति कामेषु निर्वाणपदवैरिषु ॥५०॥ अन्यच्च वधबन्धानामिहलोकेऽपि कारणम् । विषयाः परलोके च दुर्गदुर्गतिहेतवः ॥ ५१ ॥
एवं स्थिते च मध्यस्थभावेनैव निरीक्ष्यताम् । कामशास्त्रं कथं नाम स्यात् त्रिवर्गस्य साधकम् ॥५२॥ अन्यच्च दारचित्तस्याराधको न भवेन्नरः । कश्चित्प्रयोगवेत्ताऽपि कोऽप्यज्ञोऽपि पुनर्भवेत् ॥५३॥ दृश्यन्ते च सुताः केचित्सतीनामपि योषिताम् । दुःशीलाः कर्मवैचित्र्यमत्र हेतुः परं न तु ॥ ५४ ॥ तुच्छा दानादिशून्याश्चाऽनुरक्ता अपि योषितः । दृश्यन्ते तेन कामार्थी ततः स्युरिति नोचितम् ॥५५॥ अन्यच्चाऽशोभनं कामाः पामाकण्डूयनोपमाः । विरसाऽन्ताः कथं नाम धर्मार्थफलदा मताः ॥५६॥
३६१
धर्मार्थों तावनर्थों हि कामाञ्जनयतोऽत्र यौ । सत्याप्रमत्तताशौचोपशमायतिनाशकौ ॥५७॥
३६२
समरादित्यसंक्षेपः
धर्मार्थौ पुरुषार्थौ तन्नात्र कामफलौ मतौ । किं तु मोक्षफलावेव पुरुषार्थाविमौ मतौ ॥५८॥ अलौकिकश्च मोक्षो न मुनिलोकविलोकनात् । जन्मादिबाधाहीनश्च सर्वोत्तमसुखप्रदः ॥५९॥ समाधिभावनाध्यानादयो धर्मो हि भावतः । अर्थोऽपि हि निरीहस्य भवेन्मोक्षफलप्रदः ||६०||
अन्यथा गर्हितानीष्टापूर्तानीति श्रुतेर्वचः । कामाश्चाऽनिन्द्रिया न स्युः प्रवर्तन्ते स्वभावतः ||६१ || तिरक्षामपि विख्याता विरूपाश्च स्वरूपतः । शास्त्रेण तत् किमेतेषां निन्दितानां प्ररूपणम् ॥६२॥ शास्त्रं तदुच्यते शास्ति त्रायते च यदंहसः । तदिदं न भवत्येव शास्त्रमंहसि पातनात् ॥६३॥ कुकाव्यहविषा कामं दीप्यते कामपावकः । तत्कामोद्दीपकं नैव प्रशस्यं वचनं बुधैः ||६४ ||
शमादिभावकृद्वाक्यं वाच्यं श्लाघ्यं च धीमता । तदलं दुर्वचस्तुल्यकामशास्त्राऽर्थचिन्तया ॥ ६५ ॥ सर्वेऽथ विस्मिता दध्युरहो अस्य विरागिता । विवेको धन्यताभावः परिणामश्च कीदृशः ॥६६॥ अशोकोऽथावदत्सत्यं कुमारैतत्तथापि हि । लोकमार्ग प्रतीत्येदं कामशास्त्रं हि किं परम् ॥६७॥
कामाङ्करोऽवदद्भव्यमशोकेन प्रजल्पितम् । ललिताङ्गोऽवदद्वक्तुं नाऽशोको वेत्त्यशोभनम् ॥६८॥ कुमारोऽथाऽवदद्भद्भजनो भिन्नरुचिर्यतः । तन्मार्गेण ततः किञ्चिन्नावैमि परतामहम् ॥६९ ॥