________________
नवमो भवः
बहुकस्तूरिकापङ्कग्रस्यमानजनक्रमम् । शिञ्जानमञ्जुमञ्जीरनारीराजिविराजितम् ॥२३॥
परस्परसमुत्क्षिप्तोत्तरीयाणां च योषिताम् । संलक्ष्यमाणवक्षोजविस्तरं कामिभिर्नरैः ||२४||
आयल्लकमिलत्पौररुध्यमानाध्वसंचरम् । मार्दङ्गिकव्रजन्यस्यमानकण्ठविभूषणम् ||२५||
परस्परपरिस्पर्धानृत्यद्वारवधूजनम् ।
वर्धापनमभूद्दिव्यं जितस्वर्गिमहोत्सवम् ॥ २६ ॥ पञ्चभिः कुलकम्
मास्यतीतेऽस्य च स्वप्नदर्शनस्याऽनुमानतः । समरादित्य इत्याख्यामदात्पैतामहीं नृपः ||२७||
वानमन्तर उद्धृत्य भवं भ्रान्त्वाऽऽप्य फेरुताम् । तत्रैव पुरि मातङ्गग्रन्थिकाऽऽख्यस्य सद्मनि ॥ २८ ॥ भार्यायां यक्षदेवायां गिरिसेनः सुतोऽजनि । कुरूपो दुःस्थितो मूर्खः समयं गमयत्ययम् ॥ २९ ॥ युग्मम् बाल्येऽपि समरादित्यस्त्वबालचरितक्रमः । कलाकलापसम्पूर्ण: कुमारत्वमवाप्तवान् ॥३०॥
शास्त्रानुरक्तः श्रद्धालुः संविग्नः समतास्थितः । तत्त्वज्ञः सोऽस्मरज्जाति तन्न वेत्ति जनः पुनः ||३१||
विशुद्धज्ञानयुक्तोऽयं विहाय विषयव्रजम् । विरक्तात्मा शुभध्यानस्थितो यतिरिवाऽभवत् ||३२||
निरीक्ष्य तादृशं राजा विषयाऽऽ सेवनाविधौ । तं दुर्ललितगोष्ठीषु निधातुमुपचक्रमे ||३३||
१. तदुल्ललितघोष्ठीषु विधा क ।
३५९
३६०
समरादित्यसंक्षेपः
अथ कामाङ्कुराशोककलिताङ्गाभिधाभृतः । भुजङ्गास्ते नरेन्द्रेण मित्रत्वेऽस्य नियोजिताः ||३४|| ते च गायन्ति खेलन्ति स्मरगाथाः पठन्ति च । कामशास्त्राणि शंसन्ति प्रशंसन्ति च नाटकम् ||३५|| संविग्नात्मा कुमारस्तूपायं तद्बोधहेतवे । ध्यायन्नस्थादचक्षाणो वचनं तद्विरोधकृत् ॥३६॥ तद्बोधायाऽन्यदा नाट्यभङ्गीमङ्गीचकार च । नीत्वा विश्वस्ततां प्रीतिर्वर्धिताऽपि च तैः समम् ||३७|| अशोकेनाऽन्यदा पृष्टः कामशास्त्रस्य चारुताम् । प्रोचे कामाङ्करस्तद्धि त्रिवर्गफलकारणम् ॥३८॥ कामशास्त्रप्रयोगाद्धि स्वदाराऽऽराधनं ततः । शुद्धः सुतो भवेद्दानाद्येन धर्मोऽप्यनुत्तरः ||३९|| सम्पद्येते च कामार्थी रक्तस्त्रीशुद्धपुत्रतः । विपर्यये तु सर्वेषामर्थानां स्याद्विपर्ययः ||४०||
कामशास्त्रं मतमतः कामधर्मार्थसाधकम् । ललिताङ्गो जगादाऽथ सुशोभनतरं ह्यदः ॥ ४१ ॥ धर्मार्थसफलत्वस्य निदर्शनमितो भवेत् । मोक्षो ह्यलौकिको ध्यानभावनादिप्रकर्षजः ॥४२॥
तस्माद्धर्मार्थसाफल्यनिदर्शनपरत्वतः । सुशोभनतरं ह्येतदशोकोऽथ सुहृज्जगौ ||४३|| कुमारोऽत्र प्रमाणं नः प्राह कामाङ्करोऽस्त्विति । ललिताङ्गोऽवदत्तर्हि प्रसादं कुरुतां गिरा ॥४४॥ कुमारः प्राह कोप्यं न परमार्थं भणाम्यहम् । ते प्रोचुः कीदृशः कोपोऽस्माकमज्ञाननाशने ॥४५॥