________________
तृतीयो भवः
भुञ्जानस्य तया सार्धं भोगान्पुत्रस्तवाऽजनि । तज्जन्मोत्सवमाधातुमत्रोद्यानिकयाऽऽगमः ॥ १३६ ॥
स्वपुत्रझोलिकान्यासस्थूणार्थं ददता दरम्। निध्युद्देशे निधेः कण्ठस्त्वया दृष्टोऽथ पूरितः ॥ १३७॥
दत्त्वाऽन्यत्र दरं लोकं भोजयित्वा बुभुक्षिते ।
शब्दं क्षिप्त्वा स्वयं भुक्त्वा पुरेऽगाः स्वजनाऽन्वितः ॥ १३८||
त्वयाऽथ मातृभक्तेन पृष्टाऽम्बा युज्यतेऽत्र किम् । साऽवोचद्दर्शिते स्थाने कथयिष्ये तवोचितम् ॥ १३९ ॥ तत्र प्रदेशे नीत्वाऽम्बां भवतां दर्शिते निधौ । सा दध्यौ लोभतेऽज्ञानात्प्राच्याऽभ्यासवशादपि ॥ १४०॥ कथञ्चिदपि हत्वैनं गृह्णाम्येकाकिनी निधिम् । ध्यात्वेत्युवाच वत्सेदं भूरि भूरि कथञ्चन ॥ १४१ ॥ राजा वेत्ति तदादत्ते सर्वमग्रेतनं धनम् ।
तदेतत्समये ग्राह्यमधुनैतेन पूर्यते ॥ १४२ ॥
त्वया यदादिशत्यम्बेत्युक्ते पुरमुपागतौ । कियन्तोऽपि व्यतीयुस्ते वासराः सुखभासुराः ॥१४३॥
तस्यास्तु प्राग्भवाऽभ्यस्तलोभसंक्षोभसंजुषः । दुःखेन त्वद्वधोपायचिन्ताव्याकुलचेतसः || १४४|| अङ्गजस्याऽपि ते श्रीरप्यश्रीरिव कृते श्रियः । सा पौषधोपवासस्य पारणे प्रददौ विषम् ॥ १४५ ॥ मूर्छितं वीक्ष्य नन्दिन्या कृतः कोलाहलो महान् । कूजितं त्वज्जनन्याऽपि मिलितो निखिलो जनः ॥ १४६ ॥
सिद्धपुत्रस्तदा तत्राऽऽयातो मन्त्रप्रभावतः । साधर्मिकं भणित्वा त्वां निर्विषं विदधे क्षणात् ॥ १४७॥
८५
८६
समरादित्यसंक्षेपः
ततस्त्वं जातवैराग्यो मत्वा मर्त्यायुरित्वरम् । देवशर्मगुरोः पार्श्वे सत्त्वरं व्रतमग्रहीः ॥ १४८ ॥ प्रपाल्य निरतीचारं काले कालं विधाय च । ग्रैवेयकसुरोऽभूस्त्वं त्रिंशद्वारिधिजीवितः ॥ १४९ ॥ त्वन्माता तु निधौ पीठं कृत्वा द्रव्ये तथा स्थिते । मृत्वा पञ्चदशाध्यायुः पञ्चम्यां नारकोऽजनि ॥ १५०॥ उद्वृत्य नानातिर्यक्षु भ्रान्त्वा लोभस्य दोषतः । नालिकेरीतरुत्वेनोत्पन्ना तव जनन्यसौ ॥ १५१ ॥ च्युत्वा त्वं श्रीमतीकुक्षौ श्रेष्ठि सागरदत्ततः । सुतोऽभूर्युवयोरेष द्रव्यव्यतिकरस्ततः ॥१५२॥ श्रुत्वेत्यहं ससंवेगो निर्विण्णो भवचारकात् । प्रत्यक्षमर्हतो द्रव्यमनुज्ञाप्य पुराऽधिपात् ॥१५३॥ ग्राहयित्वा समस्तेभ्यो दीनादिभ्यः प्रदाय च । प्रपन्नोऽस्मि व्रतं पार्श्वे सूरेर्विजयवर्मणः ॥१५४॥ ऊचेऽथ शिखिना सत्यं भव ईदृश एव हि । धन्यस्त्वं यः प्रभोः पार्श्वे प्रव्रज्यां प्रतिपन्नवान् ॥ १५५ ॥
अथ धर्मो जिनेनोक्तः कतिधा गुरुरूचिवान् । दानशीलतपोभावैश्चतुर्धा परिकीर्तितः ॥ १५६ ॥
दानं त्रिधाऽभयज्ञानधर्मोपष्टम्भभेदतः । रक्षणं सर्वसत्त्वानामभयं कथितं जिनैः ॥ १५७॥
अपि रङ्कस्य राज्ञोऽपि समानैव जिजीविषा । त्यजत्यपि नृपो राज्यं जीवितव्यस्य लोभतः ॥ १५८॥ रूपवान् रहितो रोगैदीर्घायुः श्लाघ्यजीवितः । भवेदभऽयदानेन जन्तुरुक्तं जिनैरिति ॥ १५९ ॥