________________
चतुर्थो भवः
विशालायां पुरि पुराऽमरदत्तोऽभवन्नृपः । देवी यशोधरा तस्य सतीव्रतयशोधरा ॥ ५५७॥ तदङ्गभूर्बभूवाऽहं वीतेऽस्मान्नवमे भवे । सुरेन्द्रदत्तनामाऽस्मि मद्भार्या नयनावली ॥ ५५८ ॥ जल्पामि यावदेतावत्तावन्मोहं गता कनी । आकुलोऽभूत्परिजनो विषण्णोऽहं च चेतसि ॥ ५५९ ॥
चन्दनद्रवसंजातचेतना भाषिता मया । किमेतदिति सा प्राह संसारस्य विचित्रता ॥५६०॥
मया कथमिति प्रोक्ते सा प्रोचेऽहं यशोधरा । तन्माता प्राग्भवेऽतीते नवमेऽनवमेऽभवम् ॥५६१॥ जल्पित्वेति तयाऽऽख्यायि सकलं चरितं निजम् । यथाऽऽख्यातं कुमारेण भवतां भवतान्तिदम् ॥५६२॥ मयाऽथ जल्पितं राजपुत्रि व्यतिकरादितः । भवोद्विग्नः कुमारोऽयं जिनदीक्षां जिघृक्षति ||५६३|| एवंविधे किमस्माभिः कार्यमित्यादिशद् गुरुः । तयोदितं महाराजमार्यो विज्ञपयत्विति ॥५६४||
भवोऽयमीदृशस्तात सकर्णानां विरागदः । किं स्नेहेन कुमारस्य कुरुध्वं चित्तवाञ्छितम् ॥५६५॥ भवे विरक्तचित्ताया ममाऽऽप्यादिशत व्रतम् । नृपः श्रुत्वेति वृत्तान्तं परं संवेगमागमत् ॥५६६ ॥ अवोचच्च न पुत्रस्त्वं गुरुर्धर्मनियोजनात् । प्रव्रज्यां प्रतिपद्येऽहमपि तद्भवता सह ॥५६७॥
१. नामा मद्भार्या च क नामाभूद्भार्या च ख । २. व्यतिकरादिमात् ख ग घ च ।
१५१
१५२
समरादित्यसंक्षेपः
अम्बा अप्यूचिरे युक्तमार्यपुत्रेदमस्थ । नटपेटकतुल्येऽत्र किं स्नेहेन कुटुम्बके ॥५६८ ॥
मयोदितं यथा सौख्यं प्रतिबन्धं विधत्त मा । तातेनाऽथ महादानं दापितं दीनदुः स्थिते ॥ ५६९ ॥
पूजा च सर्वचैत्येषु कारिता मानितो जनः । यशोवर्धननामा मेऽनुजो राज्ये निवेशितः ॥ ५७० ॥ युग्मम् मया विनयमत्या च शुद्धाऽन्तेन जनैरपि । युक्तस्तातो व्रतं पूज्येन्द्रभूतेरन्तिके ललौ ॥ ५७१ ॥ तदेतच्चरितं स्वं मे भद्र ! निर्वेदकारणम् । धनः प्राह न कस्येदमन्यस्याऽपि मनोभिदे ॥ ५७२ ||
ईदृशो ह्येष संसारस्तदादिशतु मे प्रभुः । यत्कर्तव्यं मयाऽऽचार्यः प्रोवाचाऽथ यशोधरः ||५७३ || उत्सर्पिण्योऽवसर्पिण्योऽसंख्याता वसुधादिषु । वनस्पतावनन्तास्तु तास्तिष्ठति शरीरभृत् ॥५७४ || ततस्त्रसत्वं तस्माच्च तिर्यक्त्वं मर्त्यता ततः । आर्यदेशः शुभा जातिः समस्तेन्द्रियपाटवम् ॥५७५॥ जीवितं धर्मबुद्धिश्च जिनधर्मे स्थितिस्ततः । श्रद्धा तस्यां च चारित्रे प्रतिपत्तिः सुदुर्लभाः ॥५७६ ||
तस्यामपि मनः शुद्धिः साम्यं तत्राऽपि दुर्लभम् । तत्प्राप्तावचिरेणाऽपि लभते परमं पदम् ॥५७७|| कलापकम्
तत्प्रपद्यस्व चारित्रं किमन्येन कृतेन ते । अशाश्वता हि संयोगा मृत्युः प्रभवति ध्रुवम् ॥५७८ ||
एकवृक्षवसत्पक्षिसदृक्षाः स्वजनादयः ।
ततः सम्पन्नचारित्रपरिणामो धनोऽवदत् ||५७९ ||