SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पञ्चमो भवः १७१ १७२ अनङ्गवत्या राज्याश्च दास्याहूतः समागतः । तां नत्वोपाविशं मातरादिशेति जगाद च ॥१०५॥ सोवाच निर्यानुद्यानाद्यदादि त्वमसीक्षितः । ततः प्रभृति मामुच्चैः पञ्चबाणो विबाधते ॥१०६|| तस्मादशरणां दीनां शरण्य शरणागताम् । रक्ष सर्वाङ्गचङ्ग ! त्वमङ्गसङ्गेन मामतः ॥१०७।। अहो स्त्रीनिविवेकत्वमिति चिन्तयता हृदि । मयोक्तं सुतयोग्यं मे देह्यादेशं जनन्यसि ॥१०८।। तयान्त:क्रोधवत्याऽपि विलक्षहसितस्पृशा । प्रोचे यद्वत्स ! गच्छ त्वं मया सत्त्वं परीक्षितम् ॥१०९|| राज्ञी पुनः प्रणम्याऽहमागमं सदने निजे । कियत्यामपि वेलायां पुरारक्षः समागमत् ॥११०॥ नृपतेरपरं चित्तं विनयन्धरसंज्ञया । स प्राह वक्तुकामोऽस्मि किञ्चिदेकान्तमादिश ॥१११।। मयाथ वसुभूत्याद्या वयस्या वीक्षिता गताः । स प्रोचे सावधानस्त्वं कुमार ! शृणु मे वचः ॥११२॥ अस्ति स्वस्तिमती नाम पुरी भुक्तौ पितुस्तव । वीरसेनोऽभिधानेन तत्राऽस्ति कुलपुत्रकः ॥११३।। दानी मानी गभीरश्च शरण्यः करुणापरः । परोपकारी तस्यैवं ययौ काल: कियानपि ॥११४|| युग्मम् सोऽन्यदापन्नसत्त्वायाः स्वपल्याः पितृमन्दिरे । जयस्थले पुरे गच्छन्नागतः श्वेतवीपथि ॥११५।। बहिरावासितो भृत्यवर्गेण परिवारितः । तदा च तस्करः कश्चित् त्रस्तस्तं शरणं श्रितः ॥११६॥ समरादित्यसंक्षेपः कान्तयोक्तः किमेतेन सागसा रक्षितेन ते । स प्रोवाच प्रियेऽवश्यं वातव्यः शरणागतः ॥११७|| अथो हत हतेत्युच्चैर्वदन्तो नृपपूरुषाः । समेयुस्तैरयं प्रोक्तस्तस्करं नः समर्पय ॥११८।। स प्राह शरणायातं जीवन्नाहं समर्पये । तैस्तु तत्र स्थितैरेव ज्ञापितं तन्महीपतेः ॥११९।। सशरण्यं हत स्तेनमिति राज्ञा नियोजिताः । सैनिका रुरुधुस्तस्यावासमासन्नवर्तिनः ॥१२०।। संनद्धैः स्वभटैर्वीरसेनस्तैः सैनिकैः सह । युध्यते यावदायातस्तावत्तत्र नृपात्मजः ॥१२१।। वाहवाहनभूमेः स व्यावृत्तः सादिसंयुतः । निजान्पप्रच्छ कि न्वेतत् तैराख्याते यथातथे ॥१२२॥ कुमारः प्राह को नाम शरण्यं मयि जीवति । हन्तीत्याख्यात तातस्य तैर्गत्वाऽस्य निवेदितम् ॥१२३।। राज्ञा निषेधिते युद्धे कुमारः कुलपुत्रकम् । विससर्ज स च स्तेनं संमान्य वसनादिभिः ॥१२४॥ नयस्थलं समायाते वीरसेनेऽस्य गेहिनी । असूत तनयं सोऽहं विनयन्धरसंज्ञया ॥१२५।। त्वत्तातस्तद्यशोवर्मा जयवर्मनृपात्मजः । मत्तातस्य मदम्बाया उपकारी ममापि च ॥१२६।। रात्रिन्दिवं गुणग्रामं पितरौ मे पितुस्तव । नैव विस्मरतश्चित्रं तामलिप्तीस्थितावपि ॥१२७|| किं चाद्य नृपतिः प्रापाऽनङ्गवत्या निकेतनम् । दृष्टा च रुदती तेन सा नखोल्लिखिता हृदि ॥१२८|| १. प्राप्तोऽनङ्गवत्या क ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy