SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ पञ्चमो भवः १७३ १७४ राज्ञा पृष्टा बलात्कारकारिणं त्वां शशंस सा । ततः क्रुद्धः समादिक्षत्प्रच्छन्नं त्वद्वधे स माम् ॥१२९|| निःसृतोऽहं नृपादेशात्तोरणेऽशृणवं क्षुतम् । स्थितो नैमित्तिकेनोक्तः क्षुतमेतद्धि सुन्दरम् ॥१३०।। ततो गतो गृहं मात्रा पृष्टः कालुष्यकारणम् । ततश्चाकथयं तस्यै रुदती साप्यदोऽवदत् ॥१३१।। हा वत्स ! मा वधीरेनमुपकारिसुतो ह्ययम् । इत्यागतोऽहमत्रातः परं यत्कृत्यमादिश ॥१३२।। ततो दध्यावहं स्त्रीणामहो मायाविता परा । स्वभावः कथ्यते राज्ञो यदि सा क्लिश्यते ततः ॥१३३।। तलारक्षोऽवदद्देव ! शाधि मां करवाणि किम् । मयोचे कष मां पापं जिनकृद्वंशपांसनम् ॥१३४|| अत्रान्तरे क्षुतं मार्गे कैरप्युक्तं च पूरुषैः । विशुद्ध एष गङ्गाम्बुसंनिभः किं बहूदितैः ॥१३५।। स प्राह त्वां हि निर्दोषं वक्तः क्षुतमुपश्रुतिः । तदाख्याहि यथा दुष्टां तामेवाख्यामि भूपतेः ॥१३६।। मयोक्तं सा हि माता मे तत्को गुरुषु मत्सरः । स प्राह त्वत्कृते तस्याः स्थाने कूपं खनाम्यहम् ॥१३७।। सोऽथ व्रजन्भुजे धृत्वा मयोचे यदि यास्यसि । ततः स्वं घातयिष्यामि स प्रोचे तत्करोमि किम् ॥१३८|| मयोचे नृपतेराज्ञां स प्राह बहुनाऽत्र किम् । यदि रक्षसि तां रक्ष स्वं च मां च कथञ्चन ।।१३९|| ध्यात्वा मयोचे तदिदं भवेद्देशान्तरे कृते । स प्राह स्वर्णभूमौ तत्पोतेऽद्यैव प्रयास्यति ॥१४०॥ समरादित्यसंक्षेपः वसुभूतितलारक्षयुतोऽहमगमं ततः । गुप्तं मामार्पयत्पोतपतेः ससुहृदं च सः ॥१४१|| कुमार खेदितोऽसि त्वं क्षन्तव्यमिति साश्रुहक् । मां संभाष्य च नत्वा च व्यावत्तो विनयन्धरः ॥१४२।। समित्रेऽथ समारूढे मयि यानमपूर्यत । दिनैः कतिपयैः स्वर्णभूमिकामाजगाम च ॥१४३।। समुद्रदत्तं पोतेशमापृच्छयोत्तीर्य पोततः । समित्रः प्रविवेशाऽहं श्रीपुरं नामतः पुरम् ॥१४४|| श्वेतवीतः समायातं सिद्धदत्तवणिक्सुतम् । सुमनोरथदत्ताऽऽख्यं तत्राद्राक्षं सुहृत्तमम् ॥१४५।। असंभाव्यं स मां प्रेक्ष्य नत्वाऽनैषीन्निजे गृहे । पृष्टो भुक्तोत्तरं तेन तस्याऽऽख्यं सरलं वचः ॥१४६।। तातरोषेण याताऽस्मि सिंहलं मातुलान्तिके । तत्त्वं मे सिंहलद्वीपगामिपोतं निवेदय ॥१४७।। तदाख्यातेऽथ पोते मे व्रजतोऽयमढौकयत् । अदृश्यीकरणे हेतुं पटं नयनमोहनम् ॥१४८।। मया पृष्टस्तदुत्पत्ति स आख्यत्सुहृदा मम । आनीय मण्डले यक्षकन्याऽध्यक्षीकृता पुरा ॥१४९।। तया मे तुष्टया दृष्टिममोघां कर्तुमात्मनः । कुमार मह्यं दत्तोऽयं पटः प्रकटकौतुकः ॥१५०|| ततः पटं गृहीत्वाऽहं समित्रस्तेन संयुतः । उपपोतं ययौ तेन बभाषे पोतनायकः ॥१५१॥ कुमारोऽयं मम स्वामी सर्वस्वं च किमुच्यते । स प्राह यादृशस्तेऽसौ मम तादृश एव हि ॥१५२।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy