________________
१६९
१७०
पञ्चमो भवः कथञ्चिल्लब्धचैतन्या प्रोक्ता किं ते विबाधते । सोवाच दर्शनं तस्य मयाऽलीकमथोदितम् ॥८१।। लब्धा प्रवृत्तिस्तस्यास्ति कथयिष्यामि तामहम् । ततः शुचिस्मिता स्मित्वा कटिसूत्रमदान्मम ॥८२।। अथैत्य तज्जनन्योचे वत्से ! सारय वल्लकीम् । कार्यों वीणाविनोदोऽद्य महाराजस्य शासनात् ॥८३॥ तस्यामाहृतवैणिक्यां गुरुवर्गत्रपावशात् । किंकर्तव्यविमूढाऽहमविसृष्टा तयाऽऽगमम् ॥८४|| किं नु विज्ञपयिष्यामि तत्प्रवृत्तिमजानती । चिन्तापिशाच्यालीढाहमिदमुद्वेगकारणम् ॥८५॥ मयोक्तं चिन्तयाऽलं ते तं जानेऽहं ततस्तथा । करिष्यामि यथा सुस्था स्वामिनी ते भविष्यति ॥८६॥ तनयः श्वेतवीस्वामियशोवर्मनरेशितुः । नाम्ना सनत्कुमारो हि मम स्वामी सुहृच्च सः ॥८७।। तयोचे सदृशः कस्य तव स्वामी सुहच्च सः । य एवं स्वामिनी चित्तं विज्ञायाऽपि निरुद्यमः ॥८८|| मयोचेऽनुद्यमो नायमुपायं चिन्त्यत्यलम् । अनिन्द्यविधिना केन प्राप्येयमिति चेतसि ॥८९।। सा प्राह निन्द्यो नैषोऽपि विधिविधिनिदेशितः । तुल्यरूपकुलप्रेमवती कन्या ह्रियेत चेत् ॥९०।। क्वानयोर्दर्शनोपायो मयेत्युक्ते जगाद सा । स्वामिनी मन्दिरोद्यानमानेष्यामि त्वयाऽपि तत् ॥९१॥ कुमारेण सहाऽऽगम्यं मयाऽप्यङ्गीकृतं च तत् । सम्प्रति त्वं प्रमाणं तु तच्छ्रुत्वाऽहं ससम्मदः ॥९२।।
समरादित्यसंक्षेपः दत्त्वाऽस्मै कटकद्वन्द्वमद्वन्द्वसुखमन्दिरम् । ययौ तेन सहोद्यानं सर्वर्तुकुसुमाकरम् ॥९३।। विशेषकम् लवलीमण्डपान्त:स्थां तामैक्षिषि सखीयुताम् । जनचित्तभिदे हस्तभल्लीमिव मनोभुवः ॥९४|| समुत्थितासनादेषा तदुक्तो न्यषदं त्वहम् । ढौकितं कनकस्थाले ताम्बूलं च समाददे ॥९५।। अनुज्ञाता मया सापि यावदासन्युपाविशत् । उपवीणयितुं तावत्तामाह्वास्त महल्लकः ॥९६।। अप्रेक्षमाणं मां प्रेक्षमाणा वलिततारकम् । जगाम साऽहमप्युक्तः सुहृदा वसुभूतिना ॥९७|| किं स्थितेऽनात्र निर्यावो यावदुद्यानमध्यतः । अनङ्गवत्या भूपालपल्या तावन्निरीक्षितः ॥९८।। तस्यास्तदाऽभिलाषोऽभून्मयि तु स्वगृहं गते । अनङ्गसुन्दरी सन्ध्याक्षणे सप्राभृताऽगमत् ॥९९|| ऊचे स्वहस्तब्धाऽसौ माला ताम्बूलमप्यदः । कुमार ! प्रेषितं देव ! त्वत्कृते च विलेपनम् ॥१००।। श्रुत्वाऽहं तदिति न्यास्थं ताम्बूलं वदनाम्बुजे । अङ्गरागं व्याधामङ्गे न्यधां च शिरसि स्रजम् ॥१०१।। मन्मित्रमूचे तां पश्य कुमारस्य विनीतताम् । सोचे किमत्र चित्रं यदीदृशेषु विनीतता ॥१०२।। मया प्रोचेऽयमावासो वसुभूतियुतोऽपि हि । तवैव तदिहागम्यं सदा नत्वाऽथ साऽऽगमत् ॥१०३|| इति प्रीतिरवधिष्ट सखीमित्रगतागतैः । आवयोरन्यदा राजसदनाच्च विनिर्गतः ॥१०४||