SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ चतुर्थो भवः १२३ ततस्तुष्टेन भूपेन महर्या स प्रवेशितः । तेन वासवदत्ता च प्राप्ता कण्ठस्थजीविता ॥२२८।। हेतुनाऽनेन तद्दत्तं मन्त्री प्राह कृतं वरम् । यतो भवन्ति मित्रेषु वत्सला: सज्जना जनाः ।।२२९।। भगवन्भवता कार्यमात्मोचितमतः परम् । उक्त्वेति तं परिवाजं धनादींश्च मुमोच सः ॥२३०।। युग्मम् धनो राजनरान्प्रेष्य श्रावस्त्यां स्वयमेककः । अटन्महाटवीमेकां प्राप कार्पटिकैर्युतः ॥२३१।। ते हस्तियूथमागच्छवीक्ष्य नेशुर्दिशो दिशम् । गजनैकेन धावित्वा धनो धात्र्यां तु पातितः ॥२३२।। करेणाऽऽदाय खे क्षिप्तो वटाग्रे व्यलगद्धनः । गजो वशारुतं श्रुत्वा प्रीतस्तां प्रति यातवान् ॥२३३।। धनः श्येनहतां तत्राऽपश्यद्रनावली पुनः । आदाय दध्यौ श्रावस्त्याः स्वामिनेऽसौ प्रदास्यते ॥२३४।। गजयूथे व्यतिक्रान्ते वटादुत्तीर्य सोऽचलत् । इतश्च गत्वा ते राजनरा राजे व्यजिज्ञपन् ॥२३५|| वृतान्तं निखिलं राज्ञा कुपितेनेति भाषिताः । तादृग्नृरत्नमेकं किं मुक्त्वा यूयमिहागताः ॥२३६।। तदयं भवतां दण्डस्तमानीय ममाऽन्तिके । पुर्यामस्यां प्रवेष्टव्यमिति निर्वासिता इमे ॥२३७।। दरिद्धा इव ते मार्गे मार्गन्तः सर्वतो धनम् । सुखवासाभिधे ग्रामे तं प्रापुरथ तैः समम् ॥२३८।। श्रावस्तीमेत्य भूपालं नत्वा रत्नावलीं पुरः । मुक्त्वा वृत्तान्तमाचख्यौ विस्मितोऽथ नृपोऽवदत् ॥२३९।। युग्मम् समरादित्यसंक्षेपः क्व सनीडं समुद्रस्य क्व नीडं श्येनपक्षिणः । द्विलेभे भवता मर्त्यरत्न ! रत्नावली कथम् ॥२४०।। तत्तुभ्यमेव दत्तेयं न कार्यं मद्वचोऽन्यथा । राज्यमप्यथवेदं ते कि कि सम्पाद्यतां तव ॥२४१।। दिनैः कतिपयैः सार्थं कृत्वोपात्तकयाणकः । राज्ञा प्रेषि धनो दत्त्वाऽनय॑माभरणादिकम् ॥२४२।। कालेन कियताऽप्येष सुशर्मपुरमागतः । ज्ञातो जनेन तुष्टाश्च जननीजनकादयः ॥२४३॥ संमुखायातयोः पित्रोः पदेषु न्यपतद्धनः । ताभ्यामानन्द्य तं पूजा सर्वचैत्येषु निर्ममे ॥२४४।। प्रदत्तं च महादानं नृपेणाऽथ निवेशितः । महा कृतसन्मानो वर्धापनमभूत्ततः ॥२४५।। रह: पितृभ्यां पृष्टोऽथ वृत्तान्तं तं धनश्रियः । कार्मणादिमहाम्भोधिपातनान्तं न्यवेदयत् ।।२४६॥ विस्मिताभ्यामथैताभ्यामभाष्यत कृतं तया । कल्पद्रोः कपिकच्छ्वद् वत्स ! सा तव नोचिता ।।२४७|| द्रक्ष्यावस्त्वत्कृते कन्यामन्यां धन्यां कुलादिभिः । असामान्यां शशी क्वाऽपि ज्योत्स्नया कि विमुच्यते ॥२४८|| न संतापस्त्वया धार्यों धनः प्राह निसर्गतः । ई ईदृशो भवस्तत्र संतापेन कृतेन किम् ॥२४९।। पितृभ्यां धनदेवस्य महिमा विहितो महान् । समित्रस्तत्र गत्वाऽथ धनो यक्षमपूजयत् ।।२५०॥ याचकेषु यथायोग्यं प्रतिपत्ति विधाय सः । भुक्तोत्तरं महोद्यानं सिद्धार्थ नामतोऽगमत् ॥२५१॥
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy