SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ १२१ चतुर्थो भवः तत्राऽन्यदा विनीताख्यश्रेष्ठिनो विधवा सुता । नाम्ना वीरमती भक्ता परिव्राजकदर्शने ॥२०४।। मोहाविवेकतारुण्यविषयव्रातपातिता । विह्वला सिंहलाख्येन सार्धं मालाकृता गता ॥२०५।। योगात्मा नाम तत्पूज्यः सदाचारशिरोमणिः । नि:संगत्वान्निजानामप्यज्ञातो यातवांस्तदा ॥२०६।। ततो लोकप्रवादेन ज्ञाता वीरमती गता । त्वया ज्ञातश्च योगात्मा गतः संकल्पितं ततः ॥२०७|| गता योगात्मना साधं भविष्यत्यन्यदा तव । राट्सद:स्थस्य वार्ताऽभूत्सा केनाऽपि समं गता ॥२०८।। भवतोक्तमहं वेद्मि समं योगात्मना गता । राज्ञोचे स्वकलत्रेऽपि भगवानेष नि:स्पृहः ॥२०९।। त्वयोक्तं परदारेषु सस्पृहस्तेन हेतुना ।। एवंविधा इमे पाषण्डिनो नैष्वस्ति वस्तुता ॥२१०॥ श्रुत्वेति विपरीणामं केऽपि धर्मेषु भेजिरे । योगात्मा च परिवाड्भिरन्यैः स्वस्माद्वहिष्कृतः ॥२११॥ त्वयेत्थं निविडं बद्धं कर्म मर्मभिदेलिमम् । जातो मृत्वैलकत्वेन जिह्मव्रणरुजा मृतः ॥२१२।। गोमायुत्वेऽपि जिह्वायाः साटेनैव पुनर्मतः । साकेतभूमिपालस्य सहदेवस्य नन्दनः ॥२१३।। जज्ञे विलासवत्याख्याविलासिन्यां युवा च सन् । मद्यमत्तो नृपस्याऽम्बामाकोशन्नृपसूनुना ॥२१४|| निषिद्धस्तमथाक्रोशञ्जिह्वाछेदेन शिक्षितः । कृत्वाऽनशनमुत्पेदे भवान्ब्राह्मणनन्दनः ॥२१५।। विशेषकम् समरादित्यसंक्षेपः त्वयाऽनुभूतमेतद्धि विरक्तोऽहं ततो भवात् । ज्ञानिनं पुनरप्राक्षं फलशेषं तु कीदृशम् ॥२१६॥ तेनोक्तं लोकप्रत्यक्षा शेषा तव विडम्बना । ततस्तद्वाक्यभीतेन प्रव्रज्या जगृहे मया ॥२१७|| गुरोः स्व:प्रस्थितात्तालोद्घाटिन्याकाशगामिनी । लब्धे विद्ये मया तेन शिक्षितश्चास्मि यत्त्वया ॥२१८।। वाच्यं न मिथ्या प्रोक्ते सत्यष्टोत्तरसहस्रशः । देयो जापो जले नाभिदध्नेऽनुन्मेषचक्षुषा ॥२१९।। कल्ये पृष्टोऽस्मि रामाभिर्ब्रह्मरुद्रादिसेवितम् । हित्वा विषयजं सौख्यं तारुण्ये त्वं कुतो व्रती ॥२२०।। तन्नर्मभावं विज्ञाय मया नर्मोत्तरं ददे । यत्प्रियाया वियोगेन दुष्करं व्रतमाददे ॥२२१॥ मिथ्यावाक्यस्य चैतस्य जापो न विदधे मया । ततो रात्रौ सलोनोऽपि गृहीतोऽस्मि भटैस्तव ।।२२२।। अतः परं महामात्य ! सर्वं विदितमेव ते । मन्त्र्यूचे भूषणं राज्ञो दृश्यतेऽत्र कथं न हि ॥२२३।। स प्राह दत्तं श्रावस्तीस्वामिने मन्त्र्यथावदत् । किनिमित्तमथ प्राह परिव्राजकपुङ्गवः ॥२२४|| श्रावस्त्यामस्ति गन्धर्वदत्तो नाम सुहृन्मम । कन्या तेनेन्द्रदत्तस्याऽन्यस्मै दत्ताऽपि पापिना ॥२२५।। हृत्वा वासवदत्ताख्या व्यूढा रुष्टस्ततो नृपः । तां गृहीत्वा पुरादेनं दूरतो निरवासयत् ॥२२६।। युग्मम् आगतो मेऽन्तमाचख्यौ समागमनकारणम् । मयाऽनय॑मलङ्कारं दत्त्वा प्रैषि नृपान्तिके ॥२२७।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy