________________
चतुर्थो भवः
१२९
१३०
तत्तथा कथयाम्यस्यास्तं स्वप्नं दारुणं यथा । अनुजानाति मां वेषे ताहगेव भवाम्यथ ॥२९८॥ अम्बा मयाऽथ विज्ञप्ता स्वप्नो दृष्टो निशाऽत्यये । यहत्त्वाऽहं कुमारस्य राज्यं श्रामण्यमाददे ॥२९९॥ सौधान्निपतितश्चाऽस्मि विबुद्धश्च ससाध्वसः । अप्रशस्तं तया मत्वा तं स्वप्नं भयभीतया ॥३०॥ कम्पमानहृदा वामपदाहतभुवोदितं । थूत्कृत्य यच्चिरं वत्स ! जीव पालय मेदिनीम् ॥३०१|| युग्मम् दुःस्वप्नं प्रतिहन्तुं तु राज्यं दत्त्वा स्वसूनवे । इत्वरं साधुलिङ्गं त्वं प्रतिपद्यस्व पुत्रक ! ॥३०२॥ मयोक्तं मातुरादेशः प्रमाणमथ साऽवदत् । सौधपातप्रतीघातहेतवे वेदवाक्यतः ॥३०३।। पुरो व्यापादितैजीवैर्जलस्थलखचारिभिः । पूजया कुलदेवीनां शान्तिकर्म विधेहि च ॥३०४|| युग्मम् श्रुत्वेति श्रवसी बाद स्थगित्वोचे मयाऽम्ब ! किम् । शान्तिकं जीवघातेन भवेद्धर्मो ह्यहिंसया ॥३०५।। मनसाऽपि हते जन्तौ हन्तुम॒त्युरनेकशः । दु:खं परप्रदत्तं हि विशेषादात्मनो भवेत् ॥३०६|| तथाऽम्ब ! शान्तिकं तस्य स्याल्लोकद्वितयोत्तमम् । आत्मवत्सर्वभूतानि यः पश्यति निरन्तरम् ॥३०७।। अम्बाऽऽह पुण्यपापे स्तः परिणामविशेषतः । श्रुतौ यदुक्तं हत्वाऽपि विश्वमेतच्चराऽचरम् ॥३०८॥ यस्य नो लिप्यते बुद्धिर्न स पापेन लिप्यते । मुकुल: कमलस्येव जलेन जलगोऽपि सन् ॥३०९।। युग्मम्
समरादित्यसंक्षेपः कार्य पापमपि क्वाऽपि कारणेन मनीषिभिः । विषेण मृत्युदेनाऽपि क्वाऽपि जायते भेषजम् ॥३१०।। मयोचे विदधत्पापं न पुण्यफलमश्नुते । अदन् विषं सुधाबुद्ध्या किं कोऽपि क्वाऽपि जीवति ॥३११।। प्रौढं प्राणाऽतिपाताच्च पापं नान्यज्जगत्त्रये । देहारोग्यं च हिंसाया विपर्यासो मतेरसौ ॥३१२॥ अम्बाऽऽथ कुर्विदं वत्स ! जल्पन्ती न्यपतत्पदोः । दध्यावहमथ व्याघ्रतटीन्यायोऽयमागतः ॥३१३।। एकतो गुरुगीर्भङ्गो व्रतभङ्गस्तथाऽन्यतः । अथवा गुरुगीर्भङ्गाद् व्रतभङ्गोऽतिदारुणः ॥३१४।। ध्यात्वेत्यम्बाऽथ विज्ञप्ता नाऽऽदेष्टव्यमिदं मम । अथवा कुलदेव्यों कुरु मे मांसशोणितैः ॥३१५॥ इत्युक्त्वाऽहं समाकृष्टरिष्टिर्बाहौ धृतोऽम्बया । उक्तश्च मातृवात्सल्यं किं ते न त्वां विना ह्यहम् ॥३१६|| तत्प्रकारान्तरेणाऽयं कृतो मातृवधस्त्वया । विचारय स्वयं वत्स ! यदीदं वाक्यमन्यथा ॥३१७||
अत्रान्तरे निशम्याऽम्बा ताम्रचूडस्य कूजितम् । प्राह मामस्ति कल्पोऽयं प्रस्तावो यदमूदृशि ॥३१८|| श्रूयते शब्दितं यस्य स वाऽन्यो वाऽथ तादृशः । हन्यते वाञ्छितार्थस्य सिद्धिर्भवति निश्चिता ॥३१९॥ सन्तु तस्मात्परे जीवास्त्वं व्यापादय कुकुटम् । मयोक्तं त्वगिराऽपि स्वं विना नाऽन्यं विधातये ॥३२०॥ विशेषकम् अम्बाऽऽह मद्वचस्तहि पिष्टकुक्कुटतः कुरु । ब्रुवाणेत्यसिमाच्छिद्य पपात मम पादयोः ॥३२१॥