________________
चतुर्थो भवः
तन्मोहपटलच्छन्नज्ञाननेत्रेण तन्मया । प्रतिपेदे परं पश्यन्नेत्रं हि स्वं न पश्यति ॥३२२||
विधाय कुक्कुटं पिष्टमयं माता मया सह । कुलदेवीपुरा मुक्त्वा प्राह देवि सुतस्य मे ॥ ३२३ ॥ दुःस्वप्नप्रतिघाताय कुक्कुटस्तव दीयते । इत्युक्त्वा घातयामास तं मत्करगताऽसिना || ३२४||
सूपकारमथ प्राह मांसमस्य पच क्षणात् । पुत्रस्य मम चाऽप्येषा यथा शेषा प्रजायते ॥ ३२५॥
मयोचेऽम्ब ! तपोज्ञानदान ध्यानविघातिनः ।
वरं मांसाद्विषं यस्मादेकदा जायते मृतिः ॥ ३२६॥
भेषजेऽपि हि यो मांसभक्षणाऽनुमतिप्रदः । सोऽपि मांसाशिनः पृष्ठलग्नो गच्छति दुर्गतिम् ॥३२७|| तीर्थे स्नानानि दानानि दीक्षा शिक्षाश्च सद्गुरोः । अमांसभक्षिणस्तुल्यान्येतानि न कथञ्चन ॥३२८॥ अम्बाऽऽह किं विचारेण कृतं मद्वचनं त्वया । इदं सत्यं न मांसं च कल्पनामात्रमेव हि ॥ ३२९ ॥
तदपि प्रतिपन्नं च कृतं च मयका तथा ।
तदा बद्धं मया कर्म परिणामे सुदारुणम् ॥३३०||
द्वितीये दिवसे राज्यं कुमाराय ददे मया । गृह्णन्व्रतं गृहिण्योक्तः श्वः प्रव्रज्याऽस्तु नौ प्रिय ||३३१||
मयाऽध्यायि किमेतस्या विरुद्धं चेष्टितं न्वदः । अथवा चरितं स्त्रीणां वक्रं सर्पगतं यथा ||३३२ || मयोक्तं देवि नाऽहं ते भनज्मि प्रणयं क्वचित् । सा दध्यौ प्रव्रजत्यस्मिन्नप्रव्रज्याऽपवाददा ॥ ३३३॥
१३१
१३२
समरादित्यसंक्षेपः
मृते त्वनुमृतौ मन्त्रिवर्गोऽपि हि निषेधति । न तथा लाघवं च स्याद् बालराजप्रपालने ||३३४||
वञ्चयित्वा चकोराणां दृष्टिमद्य कथञ्चन । ददाम्यस्य विघाताय विषं तत्क्षणमृत्युदम् ||३३५ ॥ भोजनावसरे सूदाः सिक्छन्नमुखनासिकाः । ममाऽग्रेऽनेकरूपाणि भोजनान्युपनिन्यिरे ॥३३६॥
देवी मया समाहूताहारस्य परिणामकम् ।
सा योगवटकं मिथ्या सविषं सममानयत् ||३३७|| चकोरेष्वपनीतेषु सा ममाऽऽचमनक्षणे । तद्ददौ निर्विकल्पं च भुक्त्वाऽपायि जलं मया ॥ ३३८ ॥
प्राग्वद् वासगृहं गत्वा पल्यङ्के न्यषदं क्षणात् । विषावेगेन निश्चेष्टो न्यपतं पृथिवीतले ॥ ३३९ ॥ अपातयद्विषेणैका मामुत्सङ्गेऽपरा दधौ । देवीपृथ्व्योः सपत्नीत्वं तदा प्रकटतां गतम् ॥ ३४० ॥
ज्ञात्वा विषविकारं मे प्रतीहारः समीपगः ।
तदा विषभिषग्वर्गं यावदाह्वयते किल ॥ ३४१||
तावन्न चार्विदं वैद्याऽऽह्नानं ध्यात्वा ममोपरि । न्यस्योत्तरीयं हाहेति क्रन्दमाना निरश्रु सा || ३४२|| कण्ठसंवाहनव्याजादङ्गुष्ठाऽङ्गुलिपीडनैः ।
जहार जीवितं जीवितेशवज्जीवितेश्वरी ||३४३॥ युग्मम् तयाऽहं निहतो भद्र प्रालेयाऽचलदक्षिणे । सिलिन्ध्रपर्वते बहित्वेनाऽऽर्तध्यानतोऽभवम् ॥ ३४४॥ हत्वा मन्मातरं बालमपि मां लुब्धकोऽग्रहीत् । अदाच्च सक्तुप्रस्थेन नन्दापाटकवासिनः ||३४५ ॥