________________
१२७
१२८
चतुर्थो भवः 'कलितं नयनावल्या देव्या रत्येव रूपतः । वासावासमहं साक्षाद्विमानमिव नाकिनः ॥२७५।। युग्मम् पल्यतेऽथ निविष्टोऽहं देवी परिजने गते । अशेताऽहं तु ध्यायामि दुर्मोचा नयनावली ॥२७६।। यावत्तावदसौ हित्वा पल्यङ्कं कुट्टिमं गता । निर्ययौ द्वारमुद्धाट्य मेयं प्राणांस्त्यजत्विति ॥२७७।। पृष्ठे लग्नोऽस्म्यहं खड्गसखः कुब्जकयामिकम् । उदस्थापयदेषा तु दध्यौ किमिदमित्यहम् ॥२७८।। विशेषकम् तेनोक्तं किमतिकान्तवेलायां त्वं समागता । सा प्राहाऽद्य नृपः सुप्तश्चिराद्वेला ततोऽलगत् ॥२७९।। अर्थतं संगतं देव्या वीक्ष्य क्रोधधुताधरः । आकृष्टासिरहं दध्यौ हन्मि द्वावपि पापिनौ ॥२८०॥ पुनर्दध्यौ नरश्वाऽयं देवी शीलभृता तथा । अस्मि व्रतं जिघृक्षुश्च स्यात्कुमारस्य लाघवम् ॥२८१|| ध्यात्वेति न्यस्य कोशेऽसिं गतो वासगृहं पुनः । दध्यौ व्याधिविषं रोगो मारिर्मृत्युश्च योषितः ॥२८२।। युग्मम् एतया चिन्तया बालं श्रामण्यं सुन्दरं हि मे । यावद्ध्यायाम्यदस्तावत्तत्र देवी समागता ।।२८३|| चटूनि विदधत्येषाऽवमता सुप्तकैतवात् । स्वनत्सु प्रातस्तूर्येष्वपठन् मङ्गलपाठकः ॥२८४|| विवर्णवदना मुक्ततम:केशा विभावरी । परलोकस्थसूरस्याऽम्बु दातुमिव यात्यसौ ॥२८५।।
समरादित्यसंक्षेपः प्रात:कृत्यं विधायाऽथ निविश्य स्थानमण्डपे । मन्त्रगेहे प्रविश्याऽथाऽऽमन्त्र्यं मन्त्रिभिः सह ॥२८६|| स्वाऽऽकूते कथितेऽमात्यैरूचे गुणधरो लघुः । कुमारो देव धर्मस्ते प्रजापालनमप्यतः ॥२८७|| मयोक्तं किं न जानीथ स्थितिरेषा हि नः कुले । धर्मदूते समायाते न स्थातव्यं गृहाऽऽश्रमे ॥२८८।। मन्त्रिणोऽभिदधुः सर्वं जानीते देव एव हि । व्यतिक्रान्ते दिने रात्रौ स्थितः स्तोकं सदस्यहम् ॥२८९।। गतो वासगृहे देव्यवज्ञायां निद्रयाऽऽहतः । सुप्तजाग्रदवस्थायां रात्र्यन्ते स्वप्नमैक्षिषि ॥२९०।। किलोपविष्टः सौधस्योपरि सिंहासनादहम् । अम्बया पातितो लुठ्यन्नधः सप्तमभुव्यगाम् ॥२९१।। तथैवाऽम्बाऽपि मत्पृष्ठेऽहं तूत्थाय कथञ्चन । आरूढो मन्दिरं पश्चान्निरीक्ष्येति विबुद्धवान् ॥२९२।। ध्यातवानिति च स्वप्न: प्रारम्भेऽयं भयानकः । विपाके शुभदस्तन्न जाने किञ्चिद्भविष्यति ॥२९३|| यत्तद्भवतु वा धर्माऽध्वन्यध्वन्यस्य मेऽधुना । धर्मध्यानस्थितस्याऽथ सा विभाता विभावरी ॥२९४|| कृत्वा प्रभातकृत्यानि सदःस्थे मय्यथाऽऽगमत् । अम्बा परिजनाऽऽकीर्णाभ्युत्थिता च मयाऽऽदरात् ॥२९५॥ अङ्गाऽऽरोग्यं तया पृष्टमाख्यं नम्रशिरा अहम् । निविष्टायामहं तस्यां दध्यौ भव्यमभूदिदम् ॥२९६।। यदम्बात्राऽऽगताऽऽकतमस्यै विज्ञपयाम्यहम् । वत्सला मयि धर्मस्य विघ्नमेषा विधास्यति ॥२९७।।
१. कालनिवेदक: ख ग घ च ।