________________
तृतीयो भवः इदं कम्बलरत्नं चाऽवश्यं ग्राह्यं सुतेन मे । शिख्याह सोमदेवाऽम्बा वृथैव परितप्यते ॥२९९|| किं चाऽवश्यमहं प्रेक्ष्या ग्राह्योऽयं रत्नकम्बलः । सर्वत्र गुर्वधीनस्य प्रमाणं गुरखो हि मे ॥३०॥ सर्वं भगवते तस्मात्सोमदेव ! निवेदय । इत्युक्तोऽयं गुरुं नत्वा सर्वमेव न्यवेदयत् ॥३०१।। कुमारबहुमानेन गृहीत्वा रत्नकम्बलम् । श्रुते समाप्ते शिखिनं प्रहेष्याम्यवद्गुरुः ॥३०२।। सोमदेवो जगादाऽनुगृहीताऽस्य जनन्यलम् । दिनान्कतिपयान्स्थित्वा स त्वगानगरे निजे ॥३०३।। कियत्यपि गते काले ब्रह्मदत्तं दिवं गतम् । श्रुत्वा गुरुभिराख्याय वृत्तान्तं वृद्धसाधुयुक् ॥३०४।। प्रेषितः स्वजनालोकनिमित्तं श्रमण: शिखी । स्थितो मेघवनोद्याने ज्ञातश्च नृपनागरैः ॥३०५।। युग्मम् तैरेत्य वन्दितः श्रद्धाभरप्रणतमस्तकैः । आक्षेपण्यादिकां कुर्वन्कथामावर्जयच्च तान् ॥३०६।। द्वितीयदिवसे गत्वा वेश्मन्यम्बां ददर्श सः । ब्रह्मदत्तमृतेः क्षीणविभवां दीनमानसाम् ॥३०७|| तेनोपलक्षिता नेयं स तया तूपलक्षितः । प्रवृत्ता रोदितुं ज्ञात्वाऽऽश्वासिता शिखिनेति च ॥३०८॥ अर्थेन विक्रमेणापि सैन्येन स्वजनेन च । न धर्तुं शक्यते मातर्मृत्युर्देवासुररैपि ॥३०९॥ अयं व्याधिजरादंष्ट्र: स्फुटव्यसनपाणिजः । हिंसञ्जीवमृगान्मृत्युमृगेन्द्रः केन रक्ष्यते ॥३१०।।
समरादित्यसंक्षेपः निर्दयोऽयं दृढप्रेम्णो वियोजयति देहिनः । अनार्यः प्रेक्षते कार्यस्याऽऽयति मत्तवन्न च ॥३११।। मृत्युनाऽभिद्रुतानां हि जीवानां नास्ति किञ्चन । त्रिजगत्यामपि त्राणं हित्वा धर्मामृतं परम् ॥३१२॥ तधुज्यते तवाऽप्यम्ब ! त्यक्त्वा मोहमहाविषम् । धर्मामृतमिदं पातुमत्यन्तसुखकारणम् ॥३१३।। सदम्भया स निर्दम्भस्तयोचे जात देहि मे । गृहस्थत्वोचितं धर्म यतिधर्मे तु न क्षमा ॥३१४॥ छद्मस्थत्वादविज्ञाततद्दम्भः श्रमणः शिखी । सम्यक्त्वमूलां पञ्चाणुव्रतीमाख्यत विस्तरात् ॥३१५।। तद्व्यापादनविश्वासहेतवे च तयाऽऽददे । सा पञ्चाणुव्रती शुद्धचित्तयेव विचित्तया ॥३१६।। अथ गन्तुं प्रवृत्तः सञ्जालिन्या जल्पितः शिखी । वत्साद्यात्रैव भोक्त्व्यं स प्राहाऽम्ब ! न कल्पते ॥३१७।। धर्म दिशत्ययं नित्यं तदने सा तु तद्वधे । ध्यायत्युपायाञ्जन्तूनां ही चित्राश्चित्तवृत्तयः ॥३१८|| अन्यदा च चतुर्दश्यां मत्वा साधूनुपोषितान् । सा दध्यौ यदि कल्येऽसौ न हतस्तर्हि यास्यति ॥३१९|| प्रातः कसारं तत्पक्त्वा कृत्वा च विषमोदकम् । दत्त्वा कसारं साधुभ्यो ददेऽस्य विषमोदकम् ॥३२०।। ध्यात्वेति तत्तथा कृत्वा गतोद्याने दिवामुखे । शिखिनोक्ता किमम्बेदमादायाऽकल्प्यमागता ॥३२१॥ सा प्राह वत्स ! पुण्येच्छर्भोजनं भवतां कृते । आगताऽस्मि गृहीत्वाऽहं शिख्यूचेऽनुचितं ह्यदः ॥३२२॥