________________
१०१
१०२
समरादित्यसंक्षेपः ध्यायाम्यथ महामन्त्रं पञ्चानां परमेष्ठिनाम् । नमस्कारं परं तत्त्वं चिन्तया मे किमन्यया ॥३३४|| ध्यायन्पञ्चनमस्कृति सुविशदं भावं दधन्मानसे पञ्चत्वं समवाप्य पञ्चमदिवि श्रीब्रह्मदत्ताङ्गजः । लक्ष्मीरत्यभिधे विमानतिलकेऽभूदिन्द्रसामानिको गीर्वाणो नवसागरायुरसमज्योतिभरैर्भासुरः ॥३३५।। जालिन्यपि समालिन्यमानसाऽमानशात्रवा । सूतेऽजनि द्वितीयस्यां त्र्यब्ध्यायुर्नारको भुवि ॥३३६।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समारादित्यसंक्षेपे तार्तीयीको भवोऽभवत् ॥३३७।।
तृतीयो भवः अनाचारो हि साधूनाबाधाकर्माहतादने । सा प्राह नान्यथा चित्तनिर्वृतिर्मम जायते ॥३२३|| मन्येऽहं निष्फलं जाताऽऽगमनं भोजनं विना । तद् द्रुतं कार्यमित्युक्त्वा पपात शिखिपादयोः ॥३२४|| दध्यावृजुः शिखी धर्मश्रद्धा स्नेहश्च कीदृशः । तन्मा विपरिणामो ऽभूद्ध्यात्वेत्यूचे स जालिनीम् ॥३२५।। न कार्यः पुनरारम्भस्तयोचे वत्स ! निश्चितम् । शिख्याह तन्मुनेरस्य हस्ते भोजनमर्पय ॥३२६।। तयोचे मे स्वहस्तेन भोजिते त्वयि निर्वृतिः । तेनोचे पूर्यतां प्रत्याख्यानवेलेति सा स्थिता ॥३२७|| तयाऽथ सर्वसाधुभ्यः कसार: परिवेषितः । निदानवशतस्त्वस्य शिखिनो विषमोदकः ॥३२८।। जालिन्यथ गता शीघ्रं मूर्छितस्तु शिखी क्षणात् । सुस्थान्प्रेक्ष्य मुनीन्न स्वं विषावेगं जजल्प सः ॥३२९।। भपष्ठे लठिते तत्र दध्यः साधव आकुलाः । अकार्य किमिदं हा धिग् जनन्या विहितं भवेत् ॥३३०|| जनेन व्यसने माता स्मर्यते देवतेव या । तस्याश्चेद् व्यसनं पुत्रे का तत्र परिदेवना ॥३३१।। शिखी त्वनशनं कृत्वा दध्याविति हहा मया । माता निस्तारिता नैव भवे प्रत्युत मज्जिता ॥३३२।। अविद्यमानमप्यस्या वक्ष्यत्यपयशो जनः । न शोच्येयमथ प्राप्तजिनधर्मा जनन्यपि ॥३३३।।
१. तेनोक्तं
क।