SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ तृतीयो भवः परं किमस्य योग्योऽयं यतिमार्गस्य विद्यते । प्रभुः प्राह शिरोयोग्यं रत्नं रत्नाकरोद्भवम् ॥२७५।। श्रुत्वेति स मुदा ब्रह्मदत्तेनानुमतः शिखी । तं नत्वोवाच ताताऽनुगृहीतोऽस्मि त्वयाऽधिकम् ॥२७६।। ततो नत्वा गुरुं गत्वा पुरे दत्त्वा च दुःस्थिते । दानमाधोषणापूर्वं कृत्वा चैत्येषु चोत्सवम् ।।२७७।। शुभे मुहूर्तेऽमूर्तश्रीनृपनागरकावृतः । नदद्भिर्मङ्गलातोद्यैरारूढः शिबिकां शुभाम् ॥२७८।। सदु:खं पौरनारीभिरीक्ष्यमाणः क्षमानिधिः । विबुधैः शस्यमानश्च ददद्दानमवारितम् ॥२७९।। शिखी समेत्य गुर्वन्ते याप्ययानादवातरत् । अवन्दत च सानन्दः पूज्यपादानुदारधीः ॥२८०॥ कलापकम् दीक्षितो विधिना सामायिकोच्चारणपूर्वकम् । शिखी शिखां त्रिरुत्पाट्य गुरुणा करुणावता ॥२८॥ यच्चाऽभिनन्दनं तातपौरभूपतिनिर्मितम् । तव्रताल्लिखितादूर्ध्वं शिखेव शिखिनोऽभवत् ॥२८२।। दिनैः कतिपयैः पूर्णे मासकल्प ऋषिः शिखी । समं विजयसिंहेन सूरिणा व्यहरद्भुवि ॥२८३|| घनागमं समासाद्य मुमुदे यदयं शिखी । तत्समञ्जसमेवाभूत्स हि तस्याऽतिवल्लभः ॥२८४|| कर्मेन्धनं तपोज्वालामालाभिरनिशं दहन् । शमप्राज्य: शिखी युक्तमदीपिष्टाऽधिकाधिकम् ॥२८५।। इतश्च जालिनी जाताऽनुतापा हृद्यचिन्तयत् । नेदं भव्यमभूदेष यदव्यापादितो गतः ॥२८६।। समरादित्यसंक्षेपः तस्मान्मृदुवच:पूर्वं प्राभृतं प्रेष्य किञ्चन । इहाहूय च सौख्येन प्रीता व्यापादयामि तम् ॥२८७।। इति ध्यात्वाऽर्पयित्वा च प्राभृते रत्नकम्बलम् । सोमदेवाभिधो विप्रस्तया प्रैषि सुतान्तिके ॥२८८।। स पृच्छन्देशविख्याताचार्यवृत्तान्तमागमत् । तामलिप्त्यामपश्यच्च शिखिनं श्रमणोत्तमम् ।।२८९|| सूत्रार्थमनुजल्पन्तं साधूनां वीक्ष्य तं द्विजः । ननाम प्रत्यभिज्ञाय पृष्टस्तेन कुतो भवान् ॥२९०।। स प्राह कोशादायोतस्त्वन्मात्रा सानुतापया । प्रहितस्त्वत्प्रवृत्त्यर्थं मातृवत्सलताजुषा ॥२९१।। किमर्थमनुतापोऽयं मातुरित्थं शिखीरिते । स प्राह यत्परिव्रज्या भगवन्भवताऽऽददे ॥२९२॥ दध्यौ शिखिमुनिः स्नेहकातरं जननीमनः । भवेच्च परमार्थस्य प्रेक्षकं प्रायशो न हि ॥२९३।। दुःप्रतीकारता चैषां पितॄणां कथिता श्रुते । ध्यात्वेत्याह द्विजं नाहं मातृनिर्वेदतो व्रती ॥२९४।। भवनिर्वेदतो जज्ञे वृथाऽम्बा परितप्यते । सोमदेवोऽवदद्देव ! त्वन्मातेति दिदेश च ॥२९५॥ चञ्चलो मत्सरी तुच्छहदयो निविवेककः । स्त्रीजनोऽनुशयी पश्चादसद्ग्राह्यविमर्शकः ॥२९६॥ विमृष्टकारी गम्भीरः कृतज्ञो विनयी स्थिरः । भवेद् दृढानुरागश्च दीर्घदर्शी च पुरुषः ॥२९७।। अज्ञात्वा हृदयं तन्मे तदिदं विदधे त्वया । किं चाऽहमेकदा प्रेक्ष्या निर्ममेनाऽपि हि त्वया ॥२९८।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy