________________
तृतीयो भवः
पिङ्गः प्राह पुरा स्तेनस्तुलायां तुलितः श्वसन् । मारितः श्वासरोधेन पुनस्तौल्ये तथाविधः ॥ २५२॥
गुरुः प्राह मरुत्पूर्णो हतिर्गोपेन तोलितः । रिक्तोऽपि तोलितस्तादृक् तथा देहो यथा दृतिः ॥२५३॥
पिङ्गलः प्राह चौरस्य शरीरे तिलमात्रया । खण्डितेऽपि हि न क्वापि दृष्टो जीवः कथञ्चन ॥ २५४ ॥
गुरुः प्राहारणे: काष्ठे तिलशः खण्डितेऽपि हि । न दृष्टोऽग्निः स चेन्नास्ति कथमुत्पद्यते ततः ॥ २५५ ॥
निरुत्तरत्वात्सव्रीडं वीक्ष्य पिङ्गं गुरुर्जगौ । जीवोऽङ्गचेष्टया मान्यः शाखाकम्पेन वायुवत् ॥ २५६॥
स्पर्शनेन्द्रियतो वायुर्गृह्यतेऽत्र यथा तथा । चित्तचैतन्यधर्माऽनुभवाज्जीवोऽपि गृह्यते ॥ २५७॥
उक्तं च चित्तचैतन्यसंज्ञाविज्ञानधारणाः । ईहा मतिर्वितर्कश्च विज्ञेयं जीवलक्षणम् ॥ २५८॥ ततोऽस्ति जीवः सत्यत्र परलोकगमोद्यते । नैव भूतपरीणामाल्लभ्यते जन्म मानुषम् ॥ २५९॥ यच्चोक्तं प्रियसंयोगा अनित्यास्ते व्रतेऽपि हि । तन्न प्रियविकल्पोऽपि साधूनां हृदये न यत् ॥ २६०॥
यच्चोक्तं चञ्चला लक्ष्मीरुपायेनैव रक्ष्यते । तत्रापि रक्षणोपायो नान्यो धर्ममृते मतः ॥ २६१ ||
यच्चोचे यौवने पुष्पसारे युक्तं रसायनम् । तत्रापि परमार्थेन धर्मान्नान्यद्रसायनम् ॥२६२॥
जातिस्मृत्युपलम्भाद्यैः परलोके सुसाधिते । युज्यते परलोकारि: काम इत्यादिकं वचः || २६३ ॥
९५
९६
समरादित्यसंक्षेपः
दारुणा विषयास्त्याज्य आहारोऽपीति नोचितम् । बन्धुत्यागे हि तेषां न दारुणत्वं प्रजायते ॥ २६४ ॥ उक्तं यच्च व्रतेऽप्येष दुर्वारः शमनो न तत् । व्रते भवक्षये जाते मृत्युर्न प्रभवेद्यतः ॥ २६५ ॥
उक्तं च तत्सुखं नैव चक्रिणो न च वज्रिणः ।
इहैव त्यक्तसङ्गस्य यत्सुखं जायते मुनेः ॥२६६|| श्रुत्वेति ब्रह्मदत्तेनाऽऽनन्दाश्रुप्लुतदृष्टिना । प्रभोः प्रपेदे सम्यक्त्वं साह्रादेन सुतं प्रति ॥ २६७॥ प्रभुः पिङ्गेन पृष्टश्च विशेषं पुण्यपापयोः । आख्यत्प्रत्यक्षमेवेह सुखिदुः खिविभागतः ॥ २६८ ॥ एके हर्म्ये प्रियायुक्ताः स्वर्णाभरणभूषिताः । कल्पद्रुवद्दरिद्राणां पूरयन्ति मनोरथान् ॥२६९ ॥ जीर्णकुट्यां परे जीर्णवाससो भैक्षभोजिनः । स्वकुक्षिमपि दुःखेन पूरयन्ति परैधिताः || २७० || चक्रिणो वज्रिणस्तीर्थंकराः पुण्यानुभावतः । कुमर्त्यतिर्यग्दौर्गत्यभाजः पापप्रभावतः ॥ २७९॥ पुण्यस्य हेतवः पञ्चव्रती रात्रावभोजनम् । रागादिविजयश्चैतद्विलोमं विद्धि पाप्मनः ॥ २७२ ॥ श्रुत्वेति ब्रह्मदत्तेन समं पिङ्गोऽप्युपाददे । सम्यक्त्वमूलां भावेन श्रावकद्वादशव्रतीम् ॥२७३ || ऊचे च ब्रह्मदत्तेन शिखी मम सुतः प्रभो ! । धन्येऽध्वनि चरन्धन्यः प्रकामं मत एव मे ||२७४ ||
१. प्रजायते क ख ग घ ङ ।