________________
तृतीयो भवः सूक्ष्मश्चाऽनिन्द्रियश्चात्मा तद्भिन्नोऽङ्गान्न दृश्यते । नित्यं पश्यन्ति तं सिद्धाः केवलज्ञानिनस्तथा ॥२२८|| स्मित्वाऽथ पिङ्गल: प्रोचे सर्वं तेऽनुचितं वचः । अचेतनेषु भूतेषु चेष्टा यानादिका कथम् ॥२२९|| यन्नास्ति यत्र तत्तस्माद्भवेच्छङ्गाच्छरो यथा । अदृश्यपरमाणुभ्यो यथा दृष्टं घटादि च ॥२३०।। किं च प्रत्येकचैतन्ये भूतानां बहुचेतनः । पुमानेकेन्द्रिया जीवा घटादीनां च चेतना ॥२३१।। यदुक्तं तन्न युक्तं यद्भूतानामेव चेतना । तथाविधपरिणामभावात्तस्य त्वभावतः ॥२३२॥ चेतना न घटादीनामित्युक्ते गुरुरब्रवीत् । यत्त्वयोक्तं शरः शृङ्गात्सोऽपि कारणसंनिभः ।।२३३॥ सूक्ष्मत्वमसृणत्वादितत्तद्धर्मस्य संक्रमात् । मन्यसेऽथ विशेषोऽयं न कश्चिदवधार्यते ॥२३४|| नैवमन्यशरेभ्योऽयं यद् दृढो मसृणस्तथा । यत्नः कार्यस्ततो बाढं विशेषस्याऽवधारणे ॥२३५।। न भानोरपराधोऽयं यद् गताक्षो न पश्यति । यच्च दृश्यं घटाद्युक्तमदृश्यपरमाणुतः ॥२३६।। तन्नोचितं यतो योगिगोचराः परमाणवः । कार्यं च दृश्यते तेभ्यश्चेतना न त्वचेतनात् ॥२३७।। सत्तया मन्यसे धर्मसंक्रमं चेन्न तद्वरम् । सर्वसाधारणत्वेन सत्ता हि न नियामिका ॥२३८।। परिणामं विना यच्च घटादिषु न चेतना । यदुक्तं तत्र नैवास्ति प्रमाणं शृणु यत्नतः ॥२३९।।
समरादित्यसंक्षेपः भूतव्रातपृथग्भूतपरिणामे त्वयाहते । अपरेणाऽभिधानेनाङ्गीकृतो जीव एव हि ॥२४०॥ स मन्दाक्षं बभाषेऽथ पिङ्गलो भगवन्यदि । अनिन्द्रियगुणो जीवो भिन्नश्चास्ति शरीरतः ॥२४१।। तन्मे पितामहः पाप्मा मधुपिङ्गोऽभिधानतः । त्वन्मतान्नारकः किं मामेत्य बोधयते न सः ॥२४२।। गुरुः प्राह यथा सापराधः कारानियन्त्रितः । निजं न लभते द्रष्टुमपि किं शासितुं पुनः ॥२४३।। नारकोऽपि तथा कर्मनिबद्धो नरके वसन् । निर्गन्तुमपि नो शक्तः किं पुनः शासितुं सुतम् ॥२४४।। पिङ्गलः प्राह यद्येवं सोमपिङ्ग पिता मम । धार्मिकस्त्वन्मताद्देवः किं मां बोधयते न सः ॥२४५॥ प्रभुः प्राह यथा कश्चिद्दुःस्थो देशान्तरं गतः । प्राप्तराज्यस्त्रपाकारिकुपुत्रस्य स्मरेन्न हि ॥२४६।। तथाऽप्तदिव्यदेवर्द्धिर्मग्नचित्तः सुखाम्बुधौ । नायात्यप्यत्र दुर्गन्धिपृथ्व्यां शास्ति कथं ततः ॥२४७|| पिङ्गल: प्रोचिवानस्ति देही देहात्परो यदि । तत्कि निश्छिद्रकुम्भीस्थे मृते स्तेने न वीक्षितः ॥२४८।। गुरुणोक्तं धमशङ्ख सिंहद्वारस्थशाङ्खिकः । श्रुतो वासगृहे नद्धद्वारे पृष्ठश्च भूभुजा ॥२४९।। धमसि क्वेति तेनोक्ते सत्ये कुम्भ्यां निवेश्य तम् । सर्वतो जतुद्धायां धमेत्युक्तस्तथा व्यधात् ॥२५०॥ यथा निश्छिद्रकुम्भीतः शब्दो मूर्तोऽपि निर्गतः । अमूर्तोऽयं तथा जीवः किमत्र तदसंगतम् ॥२५१||